________________
द्वितीयः सर्गः किञ्च नीतिसर्वस्वपर्यालोचनयाऽपि न विलम्बः कार्य इत्यभिप्रेत्याह
आत्मोदयः परज्यानिर्द्वयं नीतिरितीयती।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ ३०॥ आत्मोदय इति ॥ आत्मन उदयो वृद्धिः परस्य शत्रोानिर्हानिः । 'वीज्याहाज्वरिभ्योनिः' ( उ० ४८८ ) इत्यौणादिको निःप्रत्ययः । इति द्वयम् । इदं परिमाणमस्या इति इयती एतावती । 'किमिदंभ्यां वो घः' ( ५।२।४०) मतुपो वस्य घश्च । 'उगितश्च' (४।१।६ ) इति डीप् । नीतिर्नीतिसङ्ग्रहः । एतद्वयातिरिक्तो न काश्विनीतिपदार्थोऽस्तीत्यर्थः । यदन्यत्षाड्गुण्यादिवर्णनं तत्सर्वमस्यैव प्रपञ्च इत्याहतदिति । तद् द्वयमूरीकृत्याङ्गीकृत्य । 'ऊरीकृतमुररीकृतमङ्गीकृतम्' इत्यमरः । 'ऊर्यादिचिडाचश्च' १।४।६१ इति गतिसंज्ञायां 'कुगतिप्रादयः' ( २।२०१८) इति समासे क्त्वो ल्यप् । कृतिभिः कुशलः वाचस्पत्यं वाग्ग्मित्वम् । कस्कादित्वादलुक्सत्त्वे । 'पष्ठयाः पतिपुत्र' (८।३।५३ ) इत्यादिना सत्वमिति स्वामी तन्न, तस्य छन्दोविषयत्वात् । ब्राह्मणादित्वाद्भावे ज्यञ्प्रत्ययः । प्रतायते विस्तीर्यते । कर्मणि लट् । 'तनोतेय कि' (६।४।४४ ) इत्यात्वम् । तस्मादात्मोदयाथिभिरविलम्बाच्छत्रुरुच्छेत्तव्यः, तत्रान्तरीयत्वात्तस्येति भावः ॥ ३० ॥
अन्वयः-आलोदयः परज्यानिः इति द्वयं, इयती नीतिः, तत् ऊरीकृत्यं कृतिभिः वाचस्पत्यं प्रतायते ॥३०॥
हिन्दी अनुवाद-अपनी उन्नति-( अभिवृद्धि ) तथा शत्रु की हानि, बस इतनी ही राजनीति है, इसे (इस सिद्धान्त को) स्वीकार कर (राजनीति में) कुशलपुरुष ( व्याख्यानादि द्वारा) वाग्मिता का विस्तार करते हैं ॥ ३० ॥
(अर्थात् अपनी उन्नति और शत्रु का विनाश, ये ही दो नीति की बातें हैं। इन्हें ही विद्वान् विस्तृतरूप से बताते हैं )।
प्रसा-बलराम जी कहते हैं कि राजाओं को अभ्युदय में कभी सन्तोष नहीं करना चाहिये। ननु लब्धोदयस्य किं परोच्छित्त्येत्याह
तृप्तियोगः परेणापि महिम्ना न महात्मनाम् ।
पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टान्तोऽत्र महार्णवः ॥ ३१ ॥ तृप्तियोग इति ॥ महीयसां महात्मनां परेणापि प्रभूतेनापि महिम्ना ऐश्वर्येण तृप्तियोगः सन्तोषलाभो न । अत्र तृप्त्यभावे पूर्णः सन् चन्द्रोदयाकाझी । वृद्ध्यर्थ
१. ग्लानीति ।