________________
शिशुपालवधम्
इत्यमरः । तस्य वल्गितमिव वृथा निष्फलम् । कार्यज्ञस्य वचो ग्राह्यं न तु वाचलस्येति भावः ॥ २८ ॥
८४
अन्वयः -- अनिलडितकार्यस्य वाग्मिनः वाग्जालं, निमित्तात् अपराद्धेपोः धानुष्कस्य वलितं इव वृथा ॥ २८ ॥
हिन्दी अनुवाद - कर्तव्य और अकर्त्तव्य को न जाननेवाले वक्ता की बातें निष्फलसी होती हैं, जैसे लक्ष्य से भ्रष्ट हुए बाणवाले धनुर्धारी की बढ़ी चढ़ी बातें ॥ २८ ॥
प्रसङ्ग - बलराम जी अपने मत का प्रतिपादन करते हुए कहते हैं कि मन्त्रणा के पश्चात् उसे कार्य में तत्काल परिणत करना चाहिए, क्रिया में विलम्ब करना अहितकर होता है,
अथ मन्त्रितार्थक्रियाविलम्बे दोषमाह
मन्त्रो योध इवाधीरः सर्वाङ्गैः कल्पितैरपि ॥ चिरं न सहते स्थातु परेभ्यो भेदशङ्कया ॥ २९ ॥
मन्त्र इति ॥ संवृतगुप्तं सर्वाङ्गः पूर्वोक्तैरुपायादिभिरुरः स्थलादिभिश्चोपलक्षितोऽपि : सर्वाङ्गसंवृतोऽपीत्यर्थः । मन्त्रो विचारः अधीरो भीरुः, युध्यत इति योघो भट इव । पचाद्यच् । परेभ्योऽन्येभ्योऽरिन्यश्च । 'परं दूरान्यमुख्येषु परोऽरिपरमात्मनो:' इति वैजयन्ती । भेदो विदारणं तृतीयगामित्वं च नस्य शङ्कया चिरं स्थातुम् । विलम्वितुमित्यर्थः । न सहते न क्षमः । ' शकधूप ( ३/४/६५ ) इत्यादिना तुमुन्प्रत्ययः । अतो न विलम्बितव्यम्, अन्यथा मन्त्रभेदे कार्यहानिः स्यादिति
भावः ॥ २६ ॥
अन्वयः -- संवृत्तैः अपि सर्वाङ्गै: ( उपलक्षितः ) मन्त्रः, अधीरः योधः इव परेभ्यः भेदशङ्कया चिरं स्थातुं न सहते ॥ २९ ॥
हिन्दी अनुवाद - जिस प्रकार लोहे के कवच से सर्वांग को बचाता हुआ भी भीरु योधा शत्रु के प्रहार के भय से दीर्घकाल तक रणभूमि में नहीं ठहर सकता, उसी प्रकार उपायादि पांचों भङ्गों से सुरक्षित भी मन्त्र, दीर्घकाल तक सुरक्षित नहीं रह सकता । अर्थात् हमारा निर्णय शत्रु के गुप्तचरों द्वारा ज्ञात हो सकता है || २९ ॥
प्रसङ्ग - वलराम जी संक्षेप में नीति की व्याख्या करते हैं ।
१. संवृत्तेरपि ।