________________
द्वितीयः सर्गः
इतकारलोपो बहो भूरादेशः । वाचा नातिशय्यते नातिरिच्यते । गुर्वर्थत्वादिति भावः । शीङः कर्मणि लटि यक् । 'अयङ् यि क्ङिति' (७१४।२२) इत्ययङादेशः । तथा हि-इन्धनौघान्दहतीतीन्धनोषधक् काष्ठराशिदाहकः । भूयानपीत्यर्थः ।
पित्वधत्वे भष्भावः । अग्निस्त्विषा प्रभया पूषणं सूर्यम् । अल्पीयांसमपीति भावः । न अत्येति नातिक्रामति । तेजसः प्रभावत्त्वमिव वचसोऽर्थवत्त्वमलङ्घयस्वहेतुरित्यर्थः अत्र समानधर्मविम्बितया दृष्टान्तालङ्कारः ॥ २३ ॥
अन्वय - लघु अपि एतत् वचः भूयसा वाचा न अतिशय्यते, इन्धनौघधक् अपि अग्निः त्विषा पूषणं न अत्येति ॥ २३ ॥
७९
संक्षिप्त कथन
कहा कि ) श्री कृष्ण का बातों ) से काटा नहीं
जा
सकता ।
हिन्दी अनुवाद - ( बलराम जी ने भी अत्यधिक विस्तृत कथन ( लम्बी चौड़ी ( क्योंकि ) इन्धन - समूह को जलानेवाली अग्नि भी ( अपने ) तेज से दबा नहीं सकती ॥ २३ ॥
सूर्य को
प्रसंग :- श्रीकृष्ण के विचार को सिद्धान्तरुप में स्वीकार कर तथा उद्धवजी के निषेधात्मक विचार को मन में रखते हुए - उसका तीन श्लोकों में ( क्रमांक २५-२७ ) खण्डन करते हैं ।
उद्धवमुद्दिश्यात्मनो वाग्विभवस्यामसरदानाय सन्दानितकमाहविरोधिवचसो मूकान्वागीशानपि कुर्वते ॥ जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः ॥२४॥
इत्थं यानं सिद्धान्तयित्वा तत्रोद्धवप्रतिरोधं हृदिनिधाय त्रिभिः प्रत्याचष्टेयदि हरिवचो नातिशय्यते, अलं तर्हि तवापि बागारम्भरत आह—
विरोधीति ॥ कृतिनां कुशलानां गिरः कल्यः विरोधिवचसः प्रतिकूलवादिनो वागीशान्वाक्पतीनपि । 'वागीशो वाक्पतिः समौ' इत्यमरः । मूकान्निर्वाचः कुर्वते । जङयन्तीत्यर्थः अनुलोमोऽनुकूलोऽर्थोऽभिधेयः येषां तेऽनुकूलार्थाः, अनुकूलवादिनः तान् जडान् मन्दानपि प्रवाचः प्रगल्भवाचः कुर्वते । अतोऽस्मदगिरः प्रवाच्या इति भावः । अत्र वागीशानां मूकीकरणाज्जडानां प्रवाक्त्वकरणाच्च शक्य वस्तुकरणरूपो विशेषोऽलङ्कारः असम्बन्धे सम्बन्धातिशयोक्तिप्रतिभोत्थापित
इति सङ्करः ॥ २४ ॥
अन्वय - कृतिनां गिर; विरोधिवचसः वागीशान् अपि मूकान् अनुलोमार्थान् जडान् अपि प्रवाचः कुर्वते ।
१. सर्वङ्कषायां तु 'संक्षिप्तस्य, विरोधिवचसः, षड्गुणः, अनिलडितकार्यस्य, सर्वकार्यशरीरेषु' श्लो० सं० (२५, २४, २७, २८) इत्येवं क्रमो दृश्यते ।