________________
द्वितीयः सर्गः
अष्टाभिःकुलकम् -
ततः सपत्नापनयस्मरणानुशयस्फुरा ॥ ओष्ठेन रामो रामोष्टबिम्ब चुम्बनचुचुना ॥ १४ ॥
अष्टभिः कुलकेन रामं वर्णयंस्तद्वाक्यमवतारयति -
तत इति ॥ ततो रामो जगादेत्युत्तरेणान्वयः । सपत्नो रिपुः 'रिपो वैरिसपत्नारि - इत्यमरः । तस्यापनयोऽपकारः तस्य स्मरणेन योऽनुशयः पश्चात्तापः । 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वः । तेन स्फुरतीत्यनुशयस्फू: तेन स्फुरा । ओष्ठो बिम्बमिवेत्युपमितसमासः । रामाया ओष्ठबिम्बस्य चुम्बनेन वित्तो रामोष्ठबिम्बचुम्बनचुञ्चुः ।' तेन वित्तश्चञ्चुप्चणपी' ५।२।२६ इति चञ्चुप्प्रत्ययः । ओबोष्ठयोः समोस वा पररूपं वक्तव्यम् । तेनौष्ठेनोपलक्षितः । समरसुरतयोः समरस इति भावः । उपमानुप्रासयोः संसृष्टिः ॥ १४ ॥
अन्वयः -- ततः सपत्नापनयस्मरणानुशयम्फुरा रामौष्ठबिम्बचुम्बन चुम्चुना ओष्ठेन ( उपलक्षितः ) रामः जगाद ॥ १४ ॥
हिन्दी अनुवाद - उसके पश्चात् (श्रीकृष्ण के विचार व्यक्त होने के पश्चात् ) शत्रु ( शिशुपाल ) की दुष्टता का स्मरण होने के कारण उत्पन्न क्रोध से काँपते हुए, रेवती के ओष्ठ - बिम्ब के चुम्बन में प्रसिद्ध ओष्ठ से बलराम ( बोले ) ॥ १४ ॥
७३
विशेष - प्रस्तुत श्लोक में कर्ता 'राम' है और २१ वे श्लोक में क्रिया 'जगाद ' है । अतः आठवें श्लोक में क्रिया होने से यह 'कुलक' कहा जाता है ।
कहा भी है
--
द्वाभ्यां युग्ममिति प्रोकं त्रिभिः श्लोकैर्विशेषकम् | कलापकं चतुभिः स्यात्तदूवं कुलकं स्मृतम् ॥
(२) प्रस्तुत श्लोक में महा कवि माघ ने बलराम जी का शूरवीर होना तथा विलासी होना व्यक्त किया है ॥ १४ ॥
प्रसङ्ग - प्रस्तुत श्लोक में बलराम जी कहते हैं ।
विवक्षितामर्थविदस्तत्क्षणं 'प्रतिसंहृताम् ॥ प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षताम्
॥ १५ ॥
विवक्षितामिति ॥ विवक्षितां वृद्धत्वाभिमानादग्रे वक्तुभिष्टाम् । बचेब्रूनो वा -सन्नन्तात्कर्मणि क्तः । तत्क्षणे विवक्षाक्षणे एव । इत्यविलम्बोक्तिः । प्रतिसंहृतां
१. तत्क्षुणप्रति ।