________________
७२
शिशुपालवधम्
मन्त्राणेऽव्ययम् । 'अथसंबोधनार्थकाः । स्युः प्याट् पाडङ्ग हे है भोः' इत्यमरः। वां युवयोः । 'युष्मदस्मदोः षष्ठीचतुर्थी-'८।१।२० इत्यादिना वामादेशः। मतं श्रूयताम् । विधौ लोट् । तदिदं मया श्रोतव्यम् । अन्यथा सन्देहाऽनिवृत्तरिति भावः । विदुषस्ते कुतः सन्देहस्तत्राह-ज्ञातसारः ज्ञाततत्त्वार्थोऽप्येक एकाकी कार्यवस्तुनि कर्तव्यार्थे सन्दिग्धे संशेते । खलु निश्चये । अतो मयापि सन्दिह्यत इत्यर्थः । दिह उपचये कर्तरि लट् । घत्वधत्वे । सामान्येन विशेषसमर्थनरूपोऽर्यान्तरन्यासः ॥ १२ ॥ अन्वयः-तावत् मम इदं मतं, अङ्ग वाम् अपि श्रूयतां । ज्ञातसारः
अपि एकः कार्यवस्तुनि सन्दिग्धे खलु ॥ १२ ॥ हिन्दी अनुवाद-(श्रीकृष्ण कहते हैं कि ) मेरा यह मत है, हे भङ्ग । अब आपका भी मत मुझे सुनना चाहिये, तत्वज्ञानी भी यदि अकेला है, तो वह वादग्रस्त विषय में ठीक-ठीक निर्णय नहीं कर कता। (क्योंकि तत्वज्ञानी भी कर्तव्य कार्य में सन्देह-युक्त रहता है।)॥ १२ ॥
प्रसा-प्रस्तुत श्लोक में भगवान् श्रीकृष्ण अपना मत प्रकट कर चुप हो गये।
यावदर्थपदां वाचमेवमादाय माधवः ॥
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥१३॥ यावदिति | माधवो हरियवानों यावदर्थम् । 'यावदवधारणे' (२।१।८) इत्यव्ययीभावः। यावदर्थ पदानि यस्यास्ताम् । अभिधेयसंमिताक्षरा मित्यर्थः । एव मुक्तप्रकारेण वाचमादाय गृहीत्वा । उक्त्वेत्यर्थः। विरराम तूष्णीमास । 'व्याङ् परिभ्यो रमः' ( ११३८३) इति परस्मैपदम् । तथा हि-महीयांसः उत्तमः प्रकृत्या स्वभावेन मितभाषिणः भवन्तीति शेषः । वृथालापनिषेधादिति भावः । पूर्ववदलङ्कारः ॥१३॥
अन्वयः-माधव : यावदर्थपदां वाचं एवं आदाय विरराम । महीयांस: प्रकृत्या मितभाषिणः (भवन्ति ) ॥ १३ ॥
हिन्दी अनुवाद--(इस प्रकार श्लो० ऋ० ८-१३) परिमित अर्थ-पद युक्त वचन कहकर श्रीकृष्ण चुप हो गये, क्योंकि उत्तम लोग स्वभाव से ही कम बोलते हैं। (वे वृथा आलाप नहीं करते । ) ॥ १३ ॥
प्रसङ्ग-यहां से ( श्लोक क्र. १४ से २१ तक आठ श्लोकों में ) बलराम जी अपने विचार व्यक्त करते हैं।