________________
द्वितीयः सर्गः
६९
अन्वयः - भवद्गिरां अवसरप्रदानाय नः वचांसि । पूर्वरङ्गः नाटकीयस्य वस्तुनः प्रसङ्गाय ( एव भवति ) ॥ ८ ॥
हिन्दी अनुवाद - ( श्रीकृष्णने अपने गुरुजनों से कहा कि ) मेरा कहना केवल आपलोगों के कथन को अवसर देने के लिये है, जैसे पूर्वरङ्ग ( नाटक के आरम्भ में किया जानेवाला मंगलाचरण ) नाट्य-कथा के आरंभ करने के लिये होता
11 2 11
( मन्द हास्य करते हुए श्रीकृष्ण ने आगेकी कथावस्तुका विकास होता है, दोनों को अपनी विवेकपूर्ण सम्मति ( मिलेगा । ) ॥ ८ ॥
कहा कि नाटक में जिस भाँति पूर्वरङ्ग से उसी भाँति मेरे आरम्भिक वचनसे आप निर्णीत सिद्धान्त ) प्रस्तुत करने का अवसर
विशेष - पूर्वरङ्ग :- नृत्यस्थानस्य विघ्नोपशान्तये नाटकेतिवृत्तप्रस्तावात् पूर्व सूत्रधारः प्रधानो नटः यन्मङ्गलादिकमाचरति सः पूर्वरङ्गः । तथा च विश्वनाथः, "यन्नाट्य वस्तुनः पूर्वं रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ।" रङ्गराजस्तु – पूर्वरङ्गम् प्रस्तावनेति कथयामास, परं नैतरसमीचीनं, यतः "पूर्वर विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेन्नरः ॥” इति, तथा "प्रथमं पूर्वरङ्गश्च ततः प्रस्तावनेति च । आरम्भे सर्वनाट्यानामेतत्सामान्यमिष्यते । " इति दशरूपकाद्युक्तभेदविरोधात् ।
पूर्वरङ्ग शब्द की व्युत्पत्ति इस प्रकार है-
'पूर्व रज्यतेऽस्मिन् ' -- जिसमें सामाजिकों को पहले आनन्द मिले । नाट्यशाला में नाटकादि रूपक के आरम्भ में जो औपचारिक क्रियाएँ - मङ्गलाचरण, देवतास्तवनादि की जाती हैं, उन्हें पूर्वरङ्ग कहते हैं ।
प्रसङ्ग — उपस्थित समस्यापर श्रीकृष्ण अपने विचार व्यक्त करते हैं ।
करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् ॥
विनाऽप्यस्मदलं भूष्णुरिज्यायै तपसः सुतः ॥ ९॥
सम्प्रति स्वमतमाह
करदीकृतेति - दिशां जित्वरैर्जयनशीलः । इन्शजिसतिभ्यः क्वरप् ( ३।२।१६३ ) कृद्योगात्कर्मणि षष्ठी । भ्रातृभिर्भीमादिभिर्हेतुभिः करदाः षष्ठभागप्रदाः । ' भागधेयः करो बलिः' इत्यमरः । ततश्च्चिः । 'ऊर्यादिचिचडाचश्च' इति गतिसंज्ञायां 'कुगतिप्रादयः' ( २।२।१८ ) इति नित्यसमासः । अकरदाः करदाः सम्पद्यमानाः कृताः करदीकृता भूपालाः यस्य सः वशीकृत राजमण्डलः तपसः सुतो धर्मपुत्रः । तपश्चान्द्रायणादी स्याद्धर्मे लोकान्तरेऽपि च' इति विश्वः । भस्मद्विना ।