________________
शिशुपालवधम्
तपेनेति । सदा नित्यं नतु यथाकालं प्रसूनक्लृप्ति कुमुमसम्पत्तिम् । 'प्रसूनं कुसुमं सुमम्' इत्यमरः । दधतो धारयन्तः ऋतवो वर्षाः प्रावृट् तपेन ग्रीष्मेण । 'उष्ण ऊष्मागमस्तपः' इति 'स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् ' इति चामरः । तथा हिमागमो हेमन्तः शरदा, तथा शिशिरो वसन्तलक्ष्म्या च समेत्य मिथुनीभावेन मिलित्वा अस्य रावणस्य पुरे वसन्तीति वास्तव्या वस्तारः । 'वसेस्तव्यत्कर्तरि णिच्च' इति तव्यत्प्रत्ययः । ते च कुटुम्विनश्च तेषां भावः तत्ताम् । प्रतिवासित्वमित्यर्थः । ययुः । समेत्य युयुरिति समुदायसमुदायिनोरभेदविवक्षया समानकर्तृत्वम् । अत्र पुरे युगपत्सर्वर्तु सम्बन्धाभिधानादसम्बन्धे सम्बन्धरूपातिशयोक्तिः ॥ ६५ ॥
५२
अन्वयः - सदा प्रसून क्लृप्तिं दधतः ऋतवः वर्षाः तपेन, हिमागमः शरदा, शिशिरः बसन्त लक्ष्या च समेत्य अस्य पुरे वास्तव्य कुटिम्बितां ययुः ॥ ६५ ॥
हिन्दी अनुवाद - सदा ( अपने-अपने निर्धारित समय को छोड़कर पुष्पों की समृद्धि को धारण करती हुई ( षड्) ऋतुएँ, वर्षा; ग्रीष्म के साथ, हेमन्त; शरद् के साथ और शिशिर वसन्त-लक्ष्मी के साथ मिलकर ( दाम्पत्यभाव में ) इस (रावण) की नगरी में निवासिव तथा कुटुम्बित्व को प्राप्त हुई । ( नगर निवासी एवम् कुटुम्बी बन गईं ) ॥ ६५ ॥
विशेष - प्रस्तुत श्लोक में नारद मुनि श्रीकृष्ण से कहते हैं कि पड् ऋतुओं ने भी रावण के वश में होकर घर के सदस्यों के समान मिलकर रावण की सेवा करना प्रारंभ कर दिया है ।
प्रसङ्ग - प्रस्तुत श्लोक में बन्दीकृत सुराङ्गनाओं के साथ रावण के विलासी जीवन का वर्णन है—
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्र बन्दीश्वसितानिलैर्यथा ॥ सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ॥ ६६ ॥
अभीक्ष्णमिति ॥ ऊष्मणा स्मरज्वरेण सहितः सोष्मा तस्य सोष्मणस्तस्य रावणस्य वपुरभीक्ष्णं भृशमुष्णैरपि । शोकादिति भावः । सुरेन्द्रस्य बन्धः स्त्रियः तासां श्वसिता निर्लेनिःश्वास मारुतथा निर्ववौ निर्वृतम् । निर्वाण निर्वृतो मोक्षं' इति वैजयन्ती । तथा सचन्दनाम्भःकणाः चन्दनोदक बिन्दुसहिताः ते च ते कोमला मृदुलाश्च तैर्जलार्द्राणां जलोक्षिततालवृन्तानां पवनैर्न निर्ववौ ।
'घवित्रं तालवृन्तं स्यादुत्क्षेपव्यजनं च तत् । जनार्द्र जलार्द्रा स्यात् - '