________________
३६
शिशुपालवधम्
प्रसङ्ग — प्रस्तुत श्लोक में माघकवि, हिरण्यकशिपु के भय से देवों ने दुर्ग आदि का निर्माण किया, इसका वर्णन करते हैं ।
पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः ॥ स्वरूपशोभैकगुणानि' नाकिनां गणैस्तमाशङ्कय तदादि चक्रिरे ॥ ४५ ॥
पुराणीति ॥ किश्व नाकिनां सुराणां गणैः यं हिरण्यकशिपुमाशङ्कय वाधकत्वेनोत्प्रेक्ष्य स कालः आदियंस्मिस्तदादि तदाप्रभृति स्वरूपशोभव कफलं मुख्यं प्रयोजनं येषां तेषां सुरादीनां तानि तथोक्तानि । प्रागीदृगसाध्यशत्रोरभावादिति भावः । नपुंसकमनपुंसकेन - ( ११२६६ ) इत्यादिना नपुंसकशेषः । पुराणि दुर्गाणि प्राकारपरिखादिना अगम्यानि चक्रिरे । 'सुदुरोरधिकरणे' इति गमेर्ड: । आयुधं निशातं निशितं चक्रे इति विभक्तिविपरिणामेनान्वयः । ' शो तनूकरणे' इति धातोः क्तः । 'शाच्छोरन्यतरस्याम् ' ( ७१४१४१ ) इतीत्वविकल्पात्पक्षे आत्वम् । बलानि सैन्यानि शूराणि शौर्यवन्ति चक्रिरे सम्पादितानि । कच्चुका वारवाणाः । लोहवर्माणीत्यर्थः । कञ्चुको वारबाणोऽस्त्री' इत्यमरः । घना दुर्भेदाश्चक्रिरे । इत्यं नित्यसन्नद्धा जाग्रति स्मेत्यर्थः ॥
अन्वयः - नाकिनां गणः यम् आशड्क्य तदादि स्वरूपशोभैक- फलानि पुराणि दुर्गाणि चक्रिरे, आयुधं निशातम् ( चक्रे ) वलानि शूराणि ( चक्रिरे ), चकचुकाः घनाः ( चक्रिरे ) ।
हिन्दी अनुवाद - उस हिरण्यकशिपु के समय से ही देवताओं ने उससे आशंकित होकर स्वरूप की शोभा मात्र फलवाले, (अर्थात् दिखावटी नगरों को दुर्गम ( खाई, परकोटा आदि से सुसज्जित कर दुर्गम एवं अजेय किले का रूप दे दिया ) बनाया । ( जंग लगे हुए ) शस्त्रों को ( सानपर चढ़वाकर ) तेज बनाया, सेना को पराक्रमी और कवचों को सुदृढ़ बनवाया ॥ ४५ ॥
प्रसङ्ग - हिरण्यकशिपु जिस दिशा में जाता था, उस दिशा को देव नमस्कार करते थे।
स सञ्चरिष्णुर्भुवनान्तरेषु यां यदृच्छयाऽशिश्रियदाश्रयः श्रियः ॥ २ अकारि तस्यै मुकुटोपलस्थलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥ ४६ ॥
स इति ॥ अन्येषु भुवनेषु भुवनान्तरेषु । 'सुप्सुपा' इति समासः । सञ्चरिष्णुः सञ्चरणशीलः । 'अलंकृञ् - ' ( ३।२।१३६ ) इत्यादिना चरिष्णुच् । श्रियो लक्ष्म्या आश्रयः स हिरण्यकशिपुः यदृच्छया स्वरवृत्त्या । 'यदृच्छा स्वरवृत्तिः' इत्यमरः ।
१. फलानि नाकिनां गर्णयं ० ।
२. श्रिताम् - इतिपा० ।