________________
प्रथमः सर्ग
यां दिशमशिश्रियदगमत् । श्रयतेर्लुङ् 'मिश्रि- ( ३।११४८) इत्यादिना चङि विर्भावः इयङादेशः । मुकुटोपलेषु मौलिरत्नेषु स्खलन्तः करा येषां तः। शिरसि वद्धाञ्जलिभिरि यर्थः । उपलः प्रस्तरे रत्ने' इति विश्वः । तिस्रो दशा बाल्यकौमारयौवनानि जन्मसत्तावृद्धयो वा येषां तस्रिदशैर्देवैः । यद्वा त्रिर्दश परिमाणमेषामिति 'वहुव्रीही संख्येये डजबहुगणात्' (५।४।७३) इति समासान्तः। तिस्रः सन्ध्याः समा. हतास्त्रिसन्ध्यम् । 'तद्धितार्थोत्तरपद -' इत्यादिना समाहारे द्विगुः, द्विगुरेकवचनम् । (२४१) वा टावन्त इति पक्ष नपुंसकत्वम् । अत्यन्तसंयोगे द्वितीया । तस्य दिशे करहस्तः। 'नमः स्वस्ति-' (२।३।१६) इत्यादिना चतुर्थी । नमः नमस्कारोऽकारि कृतम् । कृञः कर्मणि लुङ् । 'चिण भावकर्मणोः ( ३।११६६) इति चिण् । सन्ध्यावन्दनेऽपि दिनियम परित्यज्य तदागमनभयात्तस्य दिशे नमस्कारः कुत इति भावः ।। ४६ ॥
अन्वयः-भुवनान्तरेषु सञ्चरिष्णुः श्रियः आश्रयः सः यहच्छ्या यो (दिशम् ) अशिश्रियत् तस्य दिशे मुकुटो पलस्खलस्करैः त्रिदशैः त्रिसन्ध्यं नमः अकारि ॥ ४६॥
हिन्दी अनुवाद-भुवनों में भ्रमग करनेवाला तथा लक्ष्मी का आधारभूत वह (हिरण्यकशिपु) अपनी इच्छा से जिस दिशा में जाता था, (सन्ध्या वन्दन के समय शान-निर्दिष्ट दिशा के नियम को छोड़कर ) उसी दिशा को, मुकुटों की मणियों पर गिरते हुए हाथों वाले ( अर्थात् सिर पर हाथ जोड़े हुए ) देवगण तीनों काल के सन्ध्या समय में नमस्कार किया करते थे ।। ४६
विशेष-देवों को 'त्रिदश' कहा जाता है। क्योंकि देवों की तीन ही अवस्थाएँ होती हैं-(१) बाक्य, (२) कौमार्य, (३) और यौवन । “तिम्रः दशाः बाल्यकौमार. यौवनानि येषां ते, अथवा त्रिर्दश परिमाणमेषाम् इति त्रिदशाः।" (उनकी वृद्धावस्था नहीं होती है।)
प्रसङ्ग-प्रस्तुत श्लोक में नारद मुनि ने श्रीकृष्ण को कहा कि आपने ही नृसिहावतार लेकर हिरण्यकशिपु का वध किया था।
सटाच्छटाभिन्नघनेन विभ्रता नृसिंह ! सैहीमतनुं तनं त्वया ॥
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः॥४७॥ अथ सोऽपि त्वयंव हत इत्याह
सटाच्छटेति ।। हे नृसिंह ! नरः सिंह इवेत्युपमितसमासः। ना चासो सिंहश्चेत्यपि, प्रस्तावात् । सिंहस्येमां सही तर्ने कार्य विभ्रता । नृसिंहावतारभाजेत्यर्थः । किंभूताम् अतनुं विस्तीर्णाम् । अत एव सटाच्छटाभिः केसरसमूहैः भिन्ना घना मेघा येन । अभ्रदूषविग्रहत्वादिति भावः । 'सटा जटाकेसरयोः' इति, 'तनुः काये