________________
प्रथमः सर्गः
चिररात्राय चिरस्याद्याविरार्थकाः' इत्यमरः। प्रथमाभिधेयतामुपेयुषा अन्वर्थतया मुख्यार्थतां गतेन तरस्विना बलवता । 'तरसी बलरंहसी' इति विश्वः । येन हिरण्यकशिपुना दिवि सीदन्तीति द्युसदां देवानां मनस्सु भयस्य पूर्वावतारः प्रथमप्रवेशः । ऋदोरप् ( ३।३।५७ ) न्यधीयत निहितः। धानः कर्मणि लङ् । अस्मादेव देवानां प्रथमं भयस्योत्पत्तिरभूदित्यर्थः ॥ ४३ ॥
अन्वयः-समत्सरेण चिराय असुर इति नाम्नः प्रथमाभिधेयताम् उपेयुपा तरस्विना येन घुसदां मनःसु भयस्य पूर्वावतारः न्यधीयत ॥ ४३ ॥
हिन्दी अनुवाद-दूसरों के अभ्युदय (शुभ ) को न सह सकनेवाले, तथा दीर्घकाल से सर्वप्रथम 'असुर' इस नाम से कहे जाने वाले जिस ( हिरण्यकशिपु) बलशाली ने देवों के मन में सर्वप्रथम भय का संचार कर दिया। (भयको उत्पन्न कर दिया)॥ ४३ ॥
प्रसङ्ग-प्रस्तुत श्लोक में कविमाव हिरण्यकशिपु द्वारा दिक्पालों को जीतने का वर्णन करते हैं। दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागहृताः सिपेविरे ॥
अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥४४॥ दिशामिति ॥ श्रियः सम्पदो यतः यदेत्यर्थः, दिशामधीशान् दिक्पतीनपि चतुरः सुरानिन्द्रवरुणयमकुवेरानपास्य त्यक्त्वा तं हिरण्यकशिपु रागहृताः रागकृष्टाः सत्यः। न तु बलादिति भावः । सिषेविरे । यतो वीरप्रियाः श्रिय इति भावः । तत आरभ्य तदाप्रभृति अयशः करोतीत्ययशस्करम् । दुष्कीतिहेतुमित्यर्थः। 'कुञो हेतुताच्छील्यानुलोम्येषु' ( ३।२।२०) इति टप्रत्ययः । 'अतः कृकमि ( ८।६।४६ ) इत्यादिना विसर्जनीयस्य सत्वम् । उच्चः प्रचर चला अस्थिरा इति प्रवादं जनापवादमवापुः। दिगीशानामपि सर्वस्वहारित्वात्तदौद्धत्यस्य प्राकटयमिति भावः ॥ ४४ ॥
अन्वयः-श्रियः यतः दिशाम् अधीशान् चतुरः सुरान् अपास्य तं रागहृताः (सत्यः) सिपेविरे ततः आरभ्य चलाः इति अयशस्करम् प्रवादम् उच्चैः अवापुः ॥ ४४ ॥
हिन्दी अनुवाद-सम्पत्तियों ( लक्ष्मी) जब से दिशाओं के स्वामी चार देवताओं (इन्द्र, वरुण, यम तथा कुबेर ) को छोड़कर उस (हिरण्यकशिपु) के अनुराग द्वारा आकृष्ट होकर सेवा करने लगी तभी से (दिक्पालों की अपेक्षा यह हिरण्यकशिपु वीर हैं, इस विचार से ) ( लक्ष्मी) चञ्चला है, इस महान् दुष्कीर्तिकर लोकापवाद को उसने प्राप्त किया ॥४४॥