________________
३४
शिशुपालवधम् है, क्योंकि वह अवश्य है, केवल आपके द्वारा ही उसका वध संभव है। प्रथम उसके पूर्वजन्म के पराक्रम का वर्णन प्रारम्भ करते हैं
तदेव वक्तुमाहअभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः। यमिन्द्रशब्दार्थनिषूदनं हरे हिरण्यपूर्व कशिपुं प्रचक्षते ॥ ४२ ॥
अथ शिशुपालो हन्तव्य इति वक्तुं तस्यावश्यवध्यत्वेऽनन्यवध्यत्वज्ञापनौपयिकतया औद्धत्यप्रकटनाथं जन्मान्तरवृत्तान्तं तावदुदाटयति--
अभूदिति ॥ प्रतिपक्षाच्छत्रोः जन्म यासां तासां भियामभूमिरविषयः। निर्भीकइत्यर्थः। तपनद्युतिः सूर्यतापोदितेस्तनूजो दैत्योऽभूत् । कोऽसावत आह-हरेरिन्द्रस्य इन्द्रशब्दार्थनिषूदनम्, इन्दतीति इन्द्रः इदि परमेश्वयें। 'ऋजेन्द्र'-इत्यादिना रत्प्रत्ययान्त औणादिकनिपातः। तस्य इन्द्रइतिशब्दस्य इन्द्रइति-संज्ञापदस्य योऽर्थः परमैश्वर्यलक्षणस्तस्य निषूदनं निवर्तकम्। कर्तरि ल्युट् । हरेरैश्वर्यनिहन्तारमित्यर्थः । यं दैत्यं हिरण्यशब्दपूर्व कशिपुशब्दं प्रचक्षते । हिरण्यकशिपुमाहुरित्यर्थः । अत्र हिरण्यशब्दपूर्वकत्वं कशिपुशब्दस्यैव न तु स ज्ञिनस्तदर्थस्येति शब्दपरस्य कशिपुशब्दस्यार्थगतत्वेनाप्रयोज्यस्य प्रयोगादवाच्यवचनाख्यार्थदोषमाहुः । 'यदेवावाच्यवचनमवाच्यवचनं हि तत्' इति । समाधान मेव विधविषये शब्दपरेणार्थलक्षणेति कथञ्चित्सम्पाद्यमित्युक्तमस्माभिः 'देवपूर्व गिरि ते' (मेघदूते पूर्व ४२) इति 'धनुरुपपदमस्मै वेदमभ्यादिदेश' (किरातार्जुनीये १८४४ ) इत्येतद्व्याख्यानावसरे सञ्जीविन्यां घण्टापथे च । विशेषश्चात्राऽयम्-दैत्यमुद्दिश्य हिरण्यपूर्व कशिपुं प्रचक्षते संज्ञात्वेन प्रयुङ्क्ते ॥ ४२ ॥ ___ अन्वयः-प्रतिपक्षजन्मनां भियाम् अभूमिः तपनद्युतिः दितेः तनूजः अभूत् यम् इन्द्रशब्दार्थनिषूदनं हिरण्यपूर्व कशिपुं प्रचक्षते ॥ ४२ ॥
हिन्दी अनुवाद-शत्रुजन्य भय से मुक्त अर्थात् प्रतिपक्ष से सदा निर्भय तथा सूर्य के समान तेजःपुंज दिति का पुत्र (देश्य ) हुआ, जिसे इन्द्र शब्द के परमैश्वर्य रूप अर्थ को नष्ट करनेवाला 'हिरण्यकशिपु' कहते हैं ॥ ४२ ॥
प्रसन्न-नारदमुनि ने श्रीकृष्ण से कहा कि हिरण्यकशिपु ने देवों के मन में सर्वप्रथम भय उत्पन्न किया।
समत्सरेणाऽसुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयताम् । भयस्य पूर्वावतरस्तरस्विना मनस्सु येन धुसदा न्यधीयत ॥४३॥
समत्सरेणेति ॥ समत्सरेणान्यशुभद्वेषसहितेन । 'मत्सरोऽन्यशुभद्वे' इत्यमरः। अस्यतीत्यसुरः । असेरुरन् । असुर इति नाम्नः चिराय चिरकालेन । 'चिराय