________________
३३
प्रथमः सर्गः ( २।३।५६ ) इत्यादिना कर्मणि शेषे पष्ठी। स्वयमपरप्रेरित एव प्रवृत्तोऽसि । एवं तहि पिष्टपेषणं किमिति चेत्तत्राह-तथापि स्वतः प्रवृत्तेऽपि मिथो रहसि त्वदाभाषणे स्वया सह संलापे लोलुपं लुब्धम् । 'लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ' इत्यमरः। मनो मां वाचालतया मह युनक्ति । वाचालं करोतीत्यर्थः । वाचो बह्वयोऽस्य सन्तीति वाचालः। 'आलजाटचौ बहुभाषिणि' (२२१२५) इत्यालच् । 'स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगडवाक्' इत्यमरः ॥ ४० ॥
अन्वयः-उझितश्रमः (सन् ) क्रमेण भुवनद्विषां पेष्टुं स्वयम् एव प्रवृत्तः असि, थापि मिथः त्वदाभाषणलोलुपं मनः मां वाचालतया युनक्ति ।
हिन्दी अनुवाद-आप परिश्रम को त्याग कर (परिश्रम की चिन्ता न कर) लोक द्रोहियों को नष्ट करने के (पीस डालने के लिए स्वयं ही प्रवृत्त हैं, तथापि एकान्त में आप के साथ भाषण करने के लिये लोभी मेरा मन मुझे वाचालता से युक्त कर रहा है (मैं विशेष उत्कण्ठित हो रहा हूँ )।
प्रसङ्ग-नारदमुनि श्रीकृष्ण से इन्द्र का सन्देश सुनने के लिए प्रार्थना करते हैं
तदिन्द्रसन्दिष्टमुपेन्द्र ! यद्वचः क्षणं मया विश्वजनीनमुच्यते। समस्तकार्येषु गतेन धुर्यंतामहिद्विषस्तद्भवता निशम्यताम् ॥ ४१ ॥ अथ स्ववाक्यश्रवणं सहेतुकं प्रार्थयते
तदिन्द्रेति ॥ तत्तस्मादिन्द्र मुपगतः उपेन्द्र इन्द्रावरजः । अत एवेन्द्रसन्दिष्टम्श्रोतव्यमिति भावः । किञ्च विश्वस्मै जनाय हितं विश्वजनीनम् । आत्मविश्वजनभोगोत्तरपदात्खः (१६) यद्वचः क्षणं नतु चिरं मयोच्यते तद्वचोऽहिद्विषो वृत्रघ्नः। 'सर्षे वृत्रासुरेऽप्यहिः' इति वैजयन्ती। समस्तकार्येषु धुर्यतां धुरन्धरत्वं गतेन । अतोऽपि भवता निशम्यताम् । प्रार्थनायां लोट् । धुरं वहतीति धुर्यः । 'धुरो यड्ढको' (४।४७७ ) इति यत्प्रत्ययः । स्फुटमत्र पदार्थहेतुकं काव्यलिङ्गमलङ्कारः ।। ४२॥
अन्वया-तत् उपेन्द्र ! इन्द्र-सन्दिष्टं विश्वजनीनं यत् वचः क्षणं मया उच्यते तत् अहिद्विषः समस्तकार्येषु धुर्यतां गतेन भवता निशम्यताम् ॥४१॥
हिन्दी अनुवाद-अतः, हे उपेन्द्र ! (इन्द्र के छोटे भाई, श्रीकृष्ण !) इन्द्र द्वारा कथित लोक-हितकारक जो वचन मैं ,क्षणभर कहता हूँ, इन्द्र के समस्त कार्यभारको प्रधानरूप से करनेवाले आप उसे सुनिये ॥ ४१ ॥
प्रसङ्ग-नारदमुनि श्रीकृष्ण से शिशुपाल का वध करने के लिये आग्रह करते ३शि०३०