________________
३२
शिशुपालवधम् अन्वयः-विश्वम्भर ! मदोद्धतैः उपप्लुतम् अदः विश्वं पातुं त्वम् एव ईशिषे, क्षपातमस्काण्डमलीमसं नभः क्षालयितुं रवेः ऋते कः समेत ?
हिन्दी अनुवाद--हे विश्व के पालनकर्ता ! मद से उद्धत (गर्व से उद्धत कंस, शिशुपाल आदि ) दैत्यों से पीड़ित इस विश्व की रक्षा करने के लिए आप ही समर्थ हैं, क्योंकि, रात्रि के अन्धकार समूह से मलिन आकाश को निर्मल करने ( स्वच्छकरने ) के लिए सूर्य के बिना कौन समर्थ हो सकता है ? अर्थात् कोई नहीं ॥ ३८ ॥
प्रसङ्ग-नारदजी ने कहा-हे श्रीकृष्ण ! आपने जो कंस आदि क्षद् राजाओं का वध किया है, वह आपकी अवमानना है।
करोति कंसादिमहीभृतां वधाजनो मृगाणामिव यत्तव स्तवम् । हरे ! हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥ ३९ ॥
करोतीति॥ किञ्च जनो मृगाणामिव कंसादिमहीभृतां वधा हेतोः स्तवं स्तोत्रम्। स्तवः स्तोत्रं स्तुति तिः' इत्यमरः । करोतीति यत् । हे हरे ! हे कृष्ण ! हे सिंहेति च गम्यते । सा स्तुतिक्रिया हिरण्याक्षपुरःसरा हिरण्याक्षप्रभृतयो येऽसुरास्त एव द्विपास्तेषां द्विषः । हन्तुरित्यर्थः । तस्य तव प्रत्युत वैपरीत्येन । 'प्रत्युतेत्युक्तवैपरीत्ये' इति गणव्याख्यानात् । तिरस्क्रिया अवमानः। यदिति सामान्ये नपुंसकम् । सेति विधेयलिङ्गम् । गजघातिनः सिंहस्य मृगवधवर्णनमिव महासुरहन्तुस्तव कंसादिक्षुद्रनृपवधवर्णनं तिरस्कार एवेत्यर्थः । अत्रासुरद्विपानामिति हरिवद्धरिरिति श्लिष्टपरम्परितरूपकं मृगाणामिवेत्युपमयाऽङ्गाङ्गिभावेन सङ्कीर्यते ।। ३६ ॥
अन्वयः-हे हरे ! जनः मृगाणाम् इव कंसादिमहीभृतां वधात् यत् तव स्तवं करोति, सा हिरण्याक्षपुरः-सरासुर द्विपद्विषः (तव ) प्रत्युत तिरस्क्रिया ॥ ३९ ॥
हिन्दी अनुवाद-हे हरे ! (पक्षा, सिंह ! ) लोग मृग तुष्य कंस आदि (क्षुद्र) राजाओं के वध के कारण जो आपकी स्तुति करते हैं, वह हिरण्याक्ष आदि असुर रूपी गजों के मारनेवाले आपकी स्तुति नहीं अपितु निन्दा है ॥ ३९ ॥
प्रसङ्ग--इस प्रकार श्रीकृष्ण की स्तुति करने के पश्चात् नारदमुनि अपने आगमन के प्रयोजन को बतलाते हैं
इदानीं प्रकटमेव कार्य विवक्षुराहप्रवृत्त एव स्वयमुज्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि । तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥४०॥ एवं स्तुत्या देवमभिमुखीकृत्यागमनप्रयोजनं वक्तुमुपोद्धातयति
प्रवृत्त इति ॥ त्वमुज्झितश्रमस्त्यक्तश्रमः सन् क्रमेण भुवनानि द्विषन्तीति भुवनद्विषो दुष्टास्तेषां पेष्टुम् । तान् हिंसितुमित्यर्थः । 'जासिनिप्रहण-'