________________
प्रथमः सर्ग विनयोक्तिरियम्। दृशो दृष्टेः पदं गोचरः कथं स्याः। न कथञ्चिदित्यर्थः। तस्मात्त्वसाक्षात्कार एवागमन प्रयोजनमिति भावः ।। ३७ ॥
अन्वयः--निजौजसा जगद्रुहाम् । उज्जासयितुं यदि महीतलं न उपाजिहीथाः ततः ईश ! समाहितः अपि अनिरूपितः (स्वम् ) मादृशां दृशः पदं कथं स्याः ॥३७॥
हिन्दी अनुवाद-अपने तेजसे, संसार के द्रोहियों (कंसादिको ) का नाश करने के लिए यदि आप पृथ्वीपर अवतीर्ण न हुए होते तो हे प्रभो! समाधिस्थ (योगियों ) के द्वारा भी दृष्टिगत न होनेवाले आप मुझ जैसे पुरुष को दृष्टिगोचर कैसे होते ? ॥ ३७ ॥
(पृथ्वी पर अवतीर्ण होने के कारण ही हम जैसे साधारण-जन भी आपका दुर्लभ दर्शन कर सकते हैं, अतएव आपके दर्शन के अतिरिक्त मेरे यहाँ आनेका कोई दूसरा प्रयोजन नहीं है।)
प्रसङ्ग-नारदजी ने श्रीकृष्ण से कहा कि आप के बिना इस विश्व की रक्षा कौन कर सकता है । ___ ननु यतिरसमाहितः, ननु च शिशुपालवधे भवान् समर्थ इति स्तुतिमुखेन सूचयितुमाह
उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वम्भर ! विश्वमीशिषे । ऋते रवः क्षालयितुंक्षमेत कःक्षपातमस्काण्डमलीमसं नभः॥ ३८॥
ननु कोऽयं नियमो यन्ममैवायं दुष्टनिग्रहाधिकार इत्याशङ्कयानन्यसाध्यत्वमेवाह__ उपप्लुतमिति ॥ विश्वं बिभर्तीति विश्वम्भरस्तत्सम्बुद्धौ हे विश्वम्भर ! विश्व - त्रातः ! 'संज्ञायां भृतवृजि' ( ३।२।४६ ) इत्यादिना खच्प्रत्यये मुमागमः । मदोद्धतः कंसादिभिरुपप्लुतं पीडितम् अदो विश्वं पातुं त्वमेव ईशिषे शक्तोऽसि । विश्वम्भरत्वादिति भावः। ईश ऐश्वर्ये लटि थासि रूपम् । अत्र वैधयण दृष्टान्तमाह-क्षपायास्तमस्काण्डस्तमोवगैः । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः। कस्कादिषु च' (८।३।४२) इति विसर्जनीयस्य सत्वम् । मलोमस मलिनम् । 'मलीमसंतु मलिनं कच्चरं मलदूषितम्' इत्यमरः । 'ज्योत्स्नातमिस्रा' (५।२।११४) इत्यादिना मत्वर्थीयो निपातः । नभः क्षालयितुं रवेः ऋते रवि विना। 'अन्यारादितरतें-' इति पञ्चमी । कः क्षमेत शक्नुयात् । न कोऽमीत्यर्थः । अत्र वाक्यद्वये समानधर्मस्यैकस्य ईशिषे क्षमेतेति शब्दद्वयेन वस्तुभावेन निर्देशात्तत्रापि व्यतिरेकमुखत्वाद्वधर्येण प्रतिवस्तूपमालङ्कारः । तदुक्तम्-सर्वस्य वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वयेन पृथनिर्देशे प्रतिवस्तूपमा ॥ ३८ ॥