________________
शिशुपालवधम्
लघूकरिष्यनिति ॥ त्वमतिभारेणोजन स्वरूपेण भङ्गुरां स्वयं भज्यमानाम् । भञ्जभासमिदो घुरच् (३।२।१६१) भङ्गुरः कर्मकर्तरि इति (५।२।३८) वामनः । अमूम् । भुवमित्यर्थः । लघूकरिष्यन्निर्भारां करिष्यन् किल । 'कुभ्वस्ति' - इत्यादिना अभूततद्भावे च्चिः 'च्वौ च' (७।४।२६) इति दीर्घः । तृतीया द्योस्त्रिदिवः स्वर्गस्तस्मात् । घञर्थे कविधानम् । वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वं त्रिभागादिवत् । अवातरः अवतीर्णोऽसि । साम्प्रतं सम्प्रत्युद्ढलोकत्रितयेन । कुंक्षाविति शेषः । त्वया धरित्री गुरुः पूज्या, भारवती च क्रियतेतरामतिशयेन क्रियते । 'तिङश्र्व' इति तरप् । 'किमेत्तिङव्ययघात् ' - इत्यादिना आमुप्रत्ययः । लघुकर्ता गुरुकर्तेति विरोधाभासोऽलङ्कारः । 'आभासत्वे विरोधस्य विरोधाभास उच्यते' इति लक्षणात् ॥ ३६ ॥
३०
अन्वयः - त्वम् अतिभारभङ्गुराम् अमूं लघूकरिष्यन् किलत्रिदिवात् अवातरः । साम्प्रतम् उदूढलोकत्रितयेन त्वया धरित्री गुरुः क्रियतेतराम् ॥ ३६ ॥
हिन्दी अनुवाद -- अत्यधिक भार से टूटती हुई इस पृथ्वी को हल्की बनाने के लिए आप स्वर्ग से अवतीर्ण हुए हैं, किन्तु इस समय ( कुक्षि में ) लोकत्रय को वहन ( धारण करनेवाले आप पृथ्वी को भारयुक्त ( पूज्य ) बना रहे हैं । ३६ ॥
विशेष - ( यहाँ एक ओर श्रीकृष्ण का अवतार पृथ्वी का भार हल्का करने के लिए, हुआ है, कहा गया है और दूसरी ओर श्रीकृष्ण को त्रैलोक्य का भार धारण करनेवाले कहकर पृथ्वी को भारवती बनानेवाले कहा गया है, अतः विरोध प्रतीत होता है । अतएव पृथ्वी पर अवतार लेने से उसे अधिक पूज्य बना रहे हैं, ऐसा अर्थ करने से उस विरोध को दूर किया जा सकता है | )
प्रसङ्ग -- प्रस्तुत श्लोक में कधिमाघ श्रीकृष्ण के अवतार का महत्त्व प्रतिपादित करते हैं।
निजौज सोजासयितुं जगद्गुहामुपाजिहीथा न महीतलं यदि । समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश ! मादृशाम् ॥ ३७ ॥
निजौजसेति ॥ निजौजसा स्वतेजता जगद्भघो द्रुह्यन्तीति जगदृद्रुहः कंसादयः । सत्सूद्विष' (३।२।६१) इत्यादिना क्विप् । तेषामुज्जासयितुम् । तान् हिंसितुमित्यर्थः । 'जासिनिप्रहण' ( २|३|५६ ) इत्यादिना कर्मणि शेषे षष्ठी । 'जसु हिंसायाम्' इति चरादिः । महीतलं नोपाजिहाथा: यदि नावतरेश्चेत् । ओहाङ् गतौ लङि थासि रूपम् । ततस्तर्हि समाहितैः समाधिनिष्ठैरपि । सकर्मकादाप्याशितादिवदविवक्षिते कर्मणि कर्तरि क्तः । अथ वा समाहितः । समाहितचित्तैरित्यर्थः । विभक्तधनेषु 'विभक्ता भ्रातरः' इतिवदुत्तरपदलोपो द्रष्टव्यः । गम्यमानार्थस्याप्रयोग एव लोप इति कैयटः | अनिरूपितोऽगृहीतस्त्वमशी ! मादृशाम् । चर्मचक्षुषामिति भावः ।