________________
शिशुपालवधम् मुनेवंचनावकाशप्रदर्शनायाह
विलोकनेनैव तवामुना मुने! कृतः कृतार्थोऽस्मि निहितांहसा। तथापि शुश्रूषुरहं गरीयसीर्गिरोऽथ वा श्रेयसि केन तृप्यते ॥२९॥
विलोकनेनेति ॥ हे मुने ! निहितांहसाऽपहृतपाप्मना अत एवामुना तव विलोकनेनैव कृतार्थः कृतोऽस्मि, तथाप्यहं गरीयसीरर्थवत्तराः । द्विवचन-' (५॥३॥५७ ) इत्यादिना ईयसुन्प्रत्ययः 'उगितश्च' इति डीप 'प्रियस्थिर-' (६।४।१५७ ) इत्यादिना गुरोगरादेशः । गिरस्तव वाचोऽपि शुश्रूषुः श्रोतुमिच्छुरस्मि । शृणोतेः सन्नन्तादुप्रत्ययः । न चैतद् वृषेत्याह-अथ वा, तथा हीत्यर्थः । अथ वेति पक्षान्तरप्रसिद्धयोरिति गणव्याख्यानात् । श्रेयसि विषये केन तृप्यते । न केनापीत्यर्थः । कृतार्थताया इयत्ताभावादिति भावः । भावे लिट् ॥ २६ ॥ ___ अन्वयः-मुने ! निबर्हितांहसा अमुना तव विलोकनेन एवं कृतार्थः कृतः अस्मि । तथापि अहं गरीयसीः तव गिरः शुश्रूषुः । अथवा श्रेयसि केनतृप्यते ? ॥२९॥
हिन्दी अनुवाद-हे मुने ! आपके पापविनाशक इस दर्शन से ही मैं कृतार्थ हो गया हूँ । तथापि मैं कल्याण करनेवाली आपकी वाणी सुनना चाहता हूँ। अथवा, कल्याण के विषय में कौन सन्तुष्ट होता है । ? (अर्थात् कोई नहीं)॥ २९ ।।
प्रसङ्ग-श्रीकृष्ण नारद मुनि से उनके आगमन का उद्देश्य (प्रयोजन) पूछते हैं। आगमनप्रयोजनं पिपृच्छिषुराह--
गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया। तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम् ॥ ३० ॥
गतस्पृहोऽपीति ॥ गतस्पृहो विरक्तोऽपि त्वमागमनप्रयोजन वदेति वक्तु यया धृष्टतया व्यवसीयते उद्यम्यते । स्यतेर्भावे लट् । उदितमुत्पन्नमुक्तं वा आत्मनो मम गौरवं येन स गुरुः श्लाघ्य एष तवागमः आगमनमेव नोऽस्माकं धृष्टतां तनोति विस्तारयति । तनु विस्तारे लट् । भवतो निःस्पृहत्वेऽपि प्रेक्षावत्प्रवृत्तः प्रयोजनव्याप्त्या सावकाशः प्रश्न इति भावः ॥ ३० ॥
अन्वयः--गतस्पृहः अपि आगमन प्रयोजनं वद इति वक्तुं यया व्यवसीयते, उदितात्मगौरवः गुरुः एषः तव आगमः एव नः तां पृष्टतां तनोति ॥ ३० ॥
हिन्दी अनुवाद-'आप विरक्त होते हुए भी (आप) अपने आनेका प्रयोजन बताइए।' (निःस्पृह होने के कारण आपके आगमन का कोई कारण नहीं हो
१. निहितांहसा।