________________
शिशुपालवधम्
प्रसङ्ग — इस श्लोक में नारद मुनि के दर्शन का महत्व बतलाया गया है । हरत्यवं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ २६ ॥ हरतीति । भवदीयदर्शनं शरीरभाजाम् । द्रष्टृणामित्यर्थः । भजो ण्विः ( ३।२६२ ) | कालत्रितये भूतादिकालत्रितयेऽपि योग्यतां पवित्रतां व्यनक्ति गमयति । कुतः - सम्प्रति दर्शनकाले अघं पापं हरति । एष्यतो भाविनः शुभस्य
यसो हेतुः । तथा पूर्वाचरितः प्रागनुष्ठितः शुभः सुकृतः कृतम् । एवं काल्येऽपि कार्यत्वेन कारणत्वेन च पुंसि सुकृतसमवायमवगमयते । अत एतादृशं दर्शनं कस्य न प्रायमिति भावः । अत्र हरतीत्यादिवाक्यत्रयस्यार्थस्य शरीरेत्यादिवाक्य त्रयोक्त्या वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ।। २६ ।।
२२
अन्वयः -- भवदीय दर्शनं शरीरभाजां कालत्रितये अपि योग्यतां व्यनक्ति, सम्प्रति अर्घ हरति, एष्यतः शुभस्य हेतु:, पूर्वा चरितैः शुभैः कृतम् ॥ २६ ॥
हिन्दी अनुवाद - आप का दर्शन शरीरधारियों की त्रिकाल में भी योग्यता ( पवित्रता ) को प्रकट करता है । वर्तमानकाल में पाप को नष्ट करता है, (भविष्यत् काल में ) आनेवाले मंगल का कारण होता है, और ( वह स्वयं ) पूर्व (जन्म) में किए हुए पुण्यों का फल होता है ॥ २६ ॥
प्रसङ्ग -- प्रस्तुत श्लोक में कविमाघ श्रीकृष्ण के शब्दों में नारद मुनि के तेज को सूर्य के तेज से अधिक प्रभावशाली बताते हैं ।
जगत्य पर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः ॥ २७ ॥
जगतीति । जगत्य पर्याप्ता अपरिच्छिन्नाः सहस्रं भानवोंऽशवो यस्य तेन भानुनाऽर्केण । 'भानवोऽकंहरांशवः' इति वैजयन्ती । यत्तमो नियन्तुं निवारयितुं समभाविन शेके । भावे लुङ् । अविद्यमानमुत्तमं यस्यात्तदनुत्तमं सर्वाधिकमदस्तमो मोहात्मकम संख्यतां गतस्तेजोभिः प्रसह्य बलात्त्वया नुन्नं छिन्नम् । अतः श्लाध्यदर्शनो भवानिति भावः । ' नुदविद -' इत्यादिना विकल्पान्निष्ठानत्वभावः । अत्रोपमानाद्भानोर्मुनेराधिक्यप्रतिपादनाद्वयतिरेकालङ्कारः ॥। २७ ॥
리
अन्वयः - जगति अपर्याप्तसहस्रभानुना यत् तमः नियन्तुं न समभावि, अनुत्तमम् अदः श्वया असंख्यतां गतैः तेजोभिः प्रसह्य नुन्नम् ॥ २७ ॥
हिन्दी अनुवाद -- संसार में अपरिमित सहस्र किरणों वाले सूर्य भी जिस ( अज्ञानरूपी ) अंधकार को नष्ट करने में समर्थ न हो सके, उस सर्वाधिक अंधकार को आपने अगणित किरणों से बलपूर्वक दूर कर दिया ।।