________________
प्रथमः सर्गः
२१
अन्वयः--निदाद्यधामानम् इव अधिदीधितिं मुनिम् अभिमुदा विकासम् उपयुषी अधिश्रितश्रिणी विलोचने विभ्रत् सः पुण्डरीकाक्षः इति स्फुटः अभवत् ॥२४॥
हिन्दी अनुवाद--उष्ण तेजवाले सूर्य के समान अत्यन्त तेजस्वी नारदमुनि के सामने हर्ष से प्रफुल्लित एवं शोभासम्पन्न नेत्र द्वय को धारण करते हुए वे (श्रीकृष्ण) स्पष्ट रूप से 'पुण्डरीकाक्ष' (कमल नयन ) हो गये ॥ २४ ॥ ।
प्रसङ्ग-कविमाघ श्रीकृष्ण का नारदमुनि से वार्तालाप का वर्णन करते हैं। सितं सितिना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन् । द्विजावली' व्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ २५ ॥
सितमिति । अथोभयोरूपवेशनानन्तरमच्युतो हेतुकर्ता विसारिभिरभीक्ष्णं प्रसरद्भिः। 'बहुलमाभीक्ष्ण्ये' ( ३।२।८१) इति णिनिः। द्विजावलिदन्तपङ्क्तिः । 'दन्तविप्राण्डजा द्विजाः' इत्यमरः। संव व्याजः कपट यस्य सः । तद्रूप इत्यर्थः । स चासो निशाकरश्च तस्यांशुभिः किरणः सितं स्वभावशुभ्रं मुनेर्वपुः सौधं प्रासादमिव सुतरामत्यन्तम् । अव्ययाद्धादाम्प्रत्ययः। सितिम्ना धावल्येन प्रयोज्यका लम्भयन्व्यापारयन् । अतिधवलयन्नित्ययः । लभेरत्र गत्युपसर्जनप्राप्त्यर्थत्वेनागत्य. थत्वात् 'गतिबुद्धि-' इत्यादिना अणि कर्तुनं कर्मत्वम् । तथाह वामनः-'लभेर्गत्यर्थत्वाणिच्यणो कर्तु: कर्मत्वाकर्मत्वे' इति (।२६) । प्राप्त्युपसर्जनगत्यर्थत्वे तु कर्मत्वमेवेति रहस्यम् । 'लभेश्व' (७।११६४) इति नुमागमः । शुचिस्मितां वाचमवोचदुक्तवान् । ब्रुवो वच्यादेशः लुङ्, 'वच उम्' इत्युमागमे गुणः । अत्र सौधमिवेत्युपभायाः सितिम्ना लम्भयन्नित्यसम्बन्धरूपातिशयोक्तेः द्विजावलिव्याजनिशाकरेति च्छलादिशब्दरसत्यत्वप्रतिपादनरूपापह्नवस्य च मिथो नरपेक्ष्यात्संसृष्टिः ॥ २५ ॥ ___ अन्वयः-अथ अच्युतः विसारिभिः द्विजावलिव्याजनिशाकरांशुभिः सितं मुनेः वपुः सौधमिव सुतरा सितिम्ना लम्भयन् शुचिस्मितां वाचम् अवोचत् ॥ २५ ॥
हिन्दी अनुवाद--इस (श्रीकृष्ण और नारद मुनि के बैठने ) के पश्चात् श्रीकृष्ण फैलनेवाली दन्तपंक्तिरूपी चन्द्रमा की किरणों से मुनि के धवल-शरीर को (चूने से पुते हुए) प्रासाद की तरह अत्यन्त धवलित करते हुए स्वच्छ ( एवं) स्मित युक्त वचन बोले ।। २५॥
(नारद मुनि निसर्गतः गौर वर्ण के (शुभ्र) थे ही, पर श्रीकृष्ण के बोलने के समय उनकी स्वच्छदन्तपंक्ति की कान्ति नारद के शरीर पर गिरने से वे और भी अधिक शुभ्र प्रतीत होने लगे, जैसे पूर्व से ही शुभ्र राजमहल पर फिर चूने की सफेदी कर दी हो ।। २५ ॥
१.द्विजावलि०।