________________
रघुवंशमहाकाव्यम्- द्वितीयःइति । 'लेखास्तु राजयः' इति । 'द्विरदोऽनेकपो द्विपः। मतगजो गजो नागः इति । 'न वा यथा तथेवेवं साम्ये' इति चामरः। ___ता०-यथा कश्चिद् गजेन्द्रो दानलेखा अप्रकटयन्नपि स्वतेनोविशेषेण निजान्तः गतां मदावस्थां सर्वान् बोधयति तथैवासावपि राजा दिलीपश्छत्रचामरादिजचिह्न रात्मनो राजश्रियमदर्शयन्नपि प्रभावातिशयेनैकं स्वकीयं चक्रवर्तित्वमनुमापयतिस्म । ___ इन्दुः-यधपि वे छत्र-चामरादि चिह्नों से भूषित नहीं थे, तथापि अपने तेज की अधिकता से ही जानी जाती हुई राजलक्ष्मी को धारण करते हुये, प्रकट रूपः से नहीं दिखाई पड़ रही है मद की रेखा जिसकी, अत एव भीतर में स्थित है मद! की अवस्था जिसकी, ऐसे गजराज की भाँति मालूम पड़ते थे ॥ ७ ॥
लताप्रतानोग्रथितै स केशैरधिज्यधन्वा विचचार दावम् । रक्षाऽपदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ।। ८॥
समी०-लतेति । लतानां वल्लीनां प्रतानैः कुटिलतन्तुभिरुग्रथिता उन्नमय्य अथिता ये केशासौरुपलक्षितः। 'इत्यम्भूतलक्षणे' इति तृतीया। स राजा। अधिज्यमारोपितमौर्वीकं धनुर्यस्य सोऽधिज्यधन्वा सन् । 'धनुषश्च' इत्यनङादेशः। मुनिहो मधेनो रक्षापदेशाद्रक्षणव्याजात् । वन्यान् वनेभवान् दुष्टसत्वान् दुष्टजन्तून् 'द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु' इत्यमरः । विनेष्यन् शिक्षयिष्यन्निव दावं वनम् । 'वने च वनवह्नौ च दावो दव इहेष्यते' इति यादवः। विचचार वने चचारेत्यर्थः । 'देशकालाध्यगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' इति दावस्य कर्मत्वम् ।। ___ अ०-लताप्रतानोद्ग्रथितैः, केशैः, (उपलक्षितः) सः अधिज्यधन्वा (सन् ), मुनिहोमधेनोः, रक्षाऽपदेशात्, वन्यान् , दुष्टसत्वान् , विनेष्यन् , इव, दावं, विच. चार । वा०-तेनाधिज्यमन्वना सता विनेष्यतेव दावो विचेरे। ___ सुधा०-लताप्रतानोद्ग्रथितैः वल्लीकुटिलतन्तुसदृशंशाखादिभिरुन्नमय्य गुम्फितः, केशैः बालो, उपलक्षितः। सः= राजा दिलीपः, अधिज्यधन्वा=आरोपितमौर्वीक. धनुष्मान । सन्निति शेषः । मुनिहोमधेनोः= वसिष्ठहवनगन्याः, नन्दिन्याः, रक्षाऽपदेशात् रक्षणन्याजात्, वन्यान् = काननसमुद्भवान् , दुष्टसत्वान् =सिंधादिहिंस्त्र. जन्तून् , विनेष्यन् शिक्षयिष्यन् , इव = यथा, दावं वनं, विचचार = व्यचरत् ।
स०-लतानां प्रताना लताप्रतानाः, तैरुग्रथिता लताप्रतानोद्ग्रथितास्तैस्तथोक्तः । अधिरोपिता ज्या यत्र तदधिज्यम् अधिज्यं धनुर्यस्यासावधिज्यधन्वा । रचाया अपदेशो रक्षाऽपदेशस्तस्माद्रक्षाऽपदेशात् । होमस्य धेनु)मधेनुः, मुने)मधेनुर्मुनिहोमधेनुस्तस्या मुनिहोमधेनोः । बने भवा वन्यास्तान्वन्यान् । विनेष्यतीति विनेष्यन् । दुष्टाश्च ते सवास्तान् दुष्टसत्वान् ।
को०-'वल्ली तु व्रततिलता' इति । 'चिकुरः कुन्तलो वालः कचः केशः शिरो.