________________
५०
रघुवंश महाकाव्यम् -
[ प्रथा
थकावट जिसकी दूर हो गयी है, ऐसे राज्यरूपी आश्रम के विषय में मुनितुल्य उन 'राजा दिलीप' से राज्य 'स्वामी - मन्त्री - नगर - देश - खजाना - सेना - मित्र' विषयक कुशल पूछा ॥ ५८ ॥
वशिष्ठस्य कुशलप्रश्नानन्तरं दिलीपस्यो चरदानोपक्रमः - अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः ।
अर्ध्यापतिर्वाचमाददे वदतां वरः ॥ ६॥
सञ्जी० - अथेति । अथ प्रश्नानन्तरं विजितारिपुरो विजितशत्रुनगरो वदतां वक्तॄणां वरः श्रेष्ठः 'यत्तश्च निर्धारणम्' इति षष्ठी । अर्थपती राजाऽथर्वणोऽथर्ववेदस्य निधेस्तस्य मुनेः पुरोऽग्रेऽर्थ्यामर्थादनपेताम् | 'धर्मपथ्यर्थन्यायादनपेते' इति यत्प्रत्ययः। वाचमाददे। वक्तुमुपक्रान्तवानियर्थः । अथर्वं निधेरित्यनेन पुरोहित कृत्याभिज्ञत्वात्तत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते । यथाऽऽह कामन्दकः - 'त्रय्या च दण्डनीत्यां च कुशलः स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम् ॥' इति ॥
अ० - अथ, विजितारिपुरः, वदतां वरः, अर्थपतिः, अथर्वनिधेः तस्य, पुरः, अर्थ्यां, वाचम्, आददे ॥ वा० - अथ विजितारिपुरेण वदतां वरेणार्थपतिनाऽथर्व - निधेस्तस्य पुरोऽर्थ्या वागाददे ॥
सुधा - अथ = वशिष्ठस्य कुशलप्रश्नानन्तरं विजितारिपुरः = कृतस्वाधीनारि - नगरः, वदतां = जल्पताम् 'मध्ये' वरः, = श्रेष्ठः, अर्थपतिः = विभवेश्वरः, राजा दिलीप इति भावः । अथर्वनिधेः- अथर्ववेदशेवधेः, अथर्ववेदविदुप इति यावत् । तस्य वशिष्ठमहर्षेः पुरः = अग्रतः, अर्थ्याम् = भर्थोपेतां वाचं = गिरम्, आदद्दे = जगृहे, वक्तुमारम्भं कृतवानित्यर्थः ॥
स०
10- नि निश्चयेन धीयतेऽस्मिन्निति निधिः, अथर्वणो निधिरथर्वनिधिः, तस्याथर्वनिधेः । अरीणां पुराण्यरिपुराणि विजितान्यरिपुराणि येन स विजितारिपुरः ।
को० - 'निधिर्ना शेवधिः' इति । ' अगारे नगरे पुरम्' इति चामरः । 'स्यात्पुरः पुरतोऽग्रतः' इति । 'आत्मवाननपेतोऽर्थादय' इति चामरः । 'अयं शिलाजतुन्यर्थ्यो बुधे न्याय्ये च वाच्यवद्' इति मेदिनी ।
ता० - सुनेर्वशिष्टस्य कुशलप्रश्नमाकर्ण्य दिलीपस्तं स्वाभिलषितपुत्रप्राप्त्युपायाभिज्ञं विज्ञाय प्रयोजनयुतां वाणीं वक्तुमारब्धवान् ॥
इन्दुः- 'गुरु वशिष्ठ के कुशल प्रश्न पूछ चुकने के बाद, वैरियों के नगरों के जीतने वाले, बोलने वालों में श्रेष्ठ, विभव के पति 'राजा दिलीप' ने, अथर्ववेद के खजाना 'अथर्ववेद के विद्वान्' उन 'वशिष्ठ ऋषि' के आगे प्रयोजन से युक्त बात चलायी ॥ ५९ ॥
*यस्य त्वं गुरुरसि तस्य राज्ये सर्वं कुशलमस्त्येवेत्याहउपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।