________________
सर्गः] सञ्जीविनी-सुधेन्दुटीकात्रयोपेतम् । सनामुर्वीमेकपुरीमिवं शशास । अनायासेन शासितवानित्यर्थः ।
अ०-सः, वेलावप्रवलयाम् परिखीकृतसागराम्, अनन्यशासनाम्, 'उर्वीम्, एकपुरीम्, इव, शशास । वा०-तेन वेलावप्रवलया परिखीकृतसागराऽनन्यशासनोर्वी, एकपुरीव शशासे।
सुधा-सा दिलीपः,वेलावप्रवलयां=समुद्रकूलप्राकारवेष्टनाम्, परिखीकृतसागरां दुर्गवेष्टनीकृतोदधिम्, अनन्यशासनां = स्वेतरशासनरहिताम्, उम्-िपृथ्वीम् एकपुरीम् = एकनगरीम्, इव = यथा, शशास=शासितवान्, प्रयासं विनवासमुद्र पृथ्वी ररक्षेति भावः।
स०-वप्राण्येव वलया वप्रवलयाः वेला एव वप्रवलया यस्याः सा वेलावप्रवलया तां वेलावप्रवलयाम् । परितः खाताः परिखा न परिखा अपरिखाः अपरिखाः परिखाः सम्पद्यमानाः कृता इति परिखीकृताः, परिखीकृताः सागरा यस्याः सा परिखीकृतसागरा तां परिखीकृतसागराम् । अन्यस्य शासनम् अन्यशासनम् अविद्यमानमन्यशासनं यस्याः साऽनन्यशासना तामनन्यशासनाम् ।
को०-'उदन्वानुदधिः सिन्धुः सरस्वान् सागरोऽर्णवः' इत्यमरः । सर्वसहा वसुमती वसुधोर्वी वसुन्धरा' इत्यमरः । 'परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले' इत्यमरः । 'पू: स्त्री पुरीनगय्यौँ वा पत्तनं पुटभेदनम्' इत्यमरः।
ता०-स दिलीप आसमुद्रान्तभूमेः शासनमनायासेन सामान्याया एकनगर्या एवाकरोत् ।
इन्दुः-उस राजा दिलीप ने समुद्र का किनारा है कङ्कण की तरह चहारदी. वारी जिसकी, और समुद्र है खाई जिसकी, ऐसी अन्य किसी राजा से शासन नहीं की जाती हुई पृथ्वी का एक नगरी की भांति शासन किया ॥ ३०॥ तस्य पत्न्या नामाह
तस्य दाक्षिण्यरूढेन नाम्ना मगधर्वशना ।
पत्नी सुदक्षिणत्यासीदध्वरस्येव दक्षिणा ।। ३१॥ सञ्जी-तस्येति । तस्य राज्ञो मगधवंशे जाता मगधवंशजा । 'सप्तम्यां जनेर्ड' इति डप्रत्ययः । एतेनाभिजात्यमुक्तम् । दाक्षिण्यं परच्छन्दानुवर्तनम् । 'दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु इति शाश्वतः । तेन रूढं प्रसिद्धम् । तेन नाम्ना । अध्वरस्य यज्ञस्य दक्षिणा दक्षिणाख्या पत्नीव सुदक्षिणेति प्रसिद्धा पल्यासीत् । अन श्रुतिः-(यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः) इति । (दक्षिणाया दाक्षिण्यं नामविजो दक्षिणत्वप्रापकत्वम् । ते दक्षन्ते दक्षिणां प्रतिगृह्य) इति च ।।
अ०-तस्य, मगधवंशजा, दाक्षिण्यरूढेन, नाम्ना, अध्वरस्य, दक्षिणा, पत्नी, इव, सुदक्षिणा, इति, 'पत्नी' आसीत् । वा०-तस्य मगधवंशजया दाक्षिण्यरूढेन नाम्नाऽध्वरस्य दक्षिणया परन्येव सुदक्षिणयेत्यभूयत ।