________________
नंषघमहाकाव्यम् निमीलनभ्रंशजुषा दशा भृशं निपीय तं यस्त्रिदशीभिजितः। अमूस्तमभ्यासभरं विवृण्वते निमेषनिःस्वैरधुनापि लोचनैः ॥२७॥
जीवास्तु-निमीलनेति । त्रिदशीभिः सुराङ्गनाभिः निमीलनभ्रंशजुषा निनिमेषयेत्यर्थः । दृशा नयनेन तं नलं भृशम् अतिमात्रं निपीय सतृष्णं दृष्ट्वैत्यर्थः । यः अभ्यासभरः अभ्यासातिशयः कृतः अमूस्त्रिदश्यः देव्यः अधुनापि निमेषनिःस्वैः निमेपशून्यः लोचनैः तम् अभ्यासभरं विवृण्वते प्रकटयन्ति । तासां स्वाभाविकस्य निमेषाभावस्य ताशनिरीक्षणाभ्यासवासनया तत्त्वमुप्रेक्ष्यते ॥ २७॥ ____ अन्वयः-त्रिदशीभिः निमीलनभ्रंशजुषा दृशा तं भृशं निपीय यः अर्जितः अमः अधुना अपि निमेषनिःस्वनः लोचनैः तम् अभ्यासभरं विवृण्वते ।
हिन्दी-सुरांगनाओ ने निनिमेष ( अपलक ) दृष्टि से उसके रूप का पान करके जिसका अर्जन किया था, उस निरन्तर अभ्यास को आज भी वे अपने अपलक नेत्रों से प्रकट करती हैं।
टिप्पणी-इस श्लोक में भी नल के सुरांगनाविमोहक उत्कट रूप का वर्णन है। जनविश्वास है कि देवता 'अपलकदृष्टि' होते हैं, उनके पलक नहीं झपकते । कवि ने यहां उसके कारणविशेष की 'उत्प्रेक्षा' की है। विद्याधर ने इसी आधार पर यहां प्रतीयमानोत्प्रेक्षा मानी है, वे अध्यवसाय की सिद्धि के कारण इसमें प्रतिशय भी मानते हैं ॥२७॥
अदस्तदाकणि फलाढ्यजीवितं दृशोदयं नस्तदवीक्षि चाफलम् । इति स्म चक्षुःश्रवसां प्रिया नले स्तुवन्ति निन्दन्ति हृदा तदात्मनः।।२८॥
जीवातु-अद इति । चक्षुःश्रवसा नागानां प्रियाः पत्न्यः इत्यर्थः । अदः इदं नोऽस्माकं दृशोश्चक्षुषोयं तं नलम् आकर्णयतीति तदाकणि तद्गुणश्रावीत्यर्थः, तासां चक्षुः श्रवस्त्वादिति भावः । अत एव फलाढ्यजीवितं सफलजीवितम् । न वीक्षते इत्यवीक्षि, अत्रोभयोस्ताच्छील्ये णिनिः। तस्य नलस्य अवीक्षि तदवीक्षि तददर्शीत्यर्थः। अत एव अफलञ्च, इति हेतोः । तदा तस्मिन् काले आत्मना स्वेन हृदा मनसा नले नलविषये स्तुवन्ति प्रशंसन्ति निन्दन्ति कुत्सयन्ति च । अतिशयोक्तिरलङ्कारः ॥ २८ ॥