________________
नैषधमहाकाव्यम्
निजमुखनिराकृतशोभम् अत एव हिया नतं सनालं नालसहितं काञ्चनं सौर्णमम्बुजन्माबुजं किम् ? तथा विद्रुमदण्डेन मण्डितं भूषितं पीतवर्णमम्भःप्रभोरपाम्पत्युः वरुणस्य चामरं किम् ? इति शब्दोऽत्राहाय्र्यः इति अबुद्ध बुद्धवानुत्प्रेक्षितवानित्यर्थः । बुध्यतेर्लुङि तङः 'झषस्तथोर्धो घ' इति तकारस्य
घकारः ॥ १२२ ॥
१०६
अन्वयः—सः तम् आत्मानन निर्जितप्रभं ह्रिया नतं सनालम् अम्बुजन्म किम् (इति) अबुद्ध, (अथ ) विद्रुमदण्डमण्डितं पीतम् अम्भः प्रभुचामरं च किम् — ( इति अबुद्ध ) |
हिन्दी - उसने उस ( हंस ) को अपने ( नल के ) मुख की कांति से पराजित ( अतएव ) लज्जा से झुका यह नाल सहित जलज ( कमल) हैं, यह तर्कणा की अथवा यह मूंगों से जिसका दंड मढ़ा हुआ है, ऐसा पीले वर्ण का जल के स्वामी वरुण का चामर है -- यह समझा ।
टिप्पणी- हंस के प्रति दो सम्भावनाएँ । लाल चरण और पीला हंस, अतः वर्णसाम्य के आधार पर विद्रुमदंडमंडित वरुण चामर की कल्पना । विद्याधर के अनुसार संदेह अलंकार, चंद्रप्रभाकार के अनुसार काव्यलिङ्गउत्प्रेक्षा- तुल्ययोगिता का अङ्गांगिभाव संकर ॥ १२२ ॥
कृतावरोहस्य हयादुपानही ततः पदे रेजतुरस्य बिभ्रती ।
तयोः प्रबालैर्वनयोस्तथाऽम्बुर्जनियोद्धुकामे किमु बद्धवर्मणी ? ।। १२३ ॥ जीवातु--कृतेति । ततस्तन्निदर्शनानन्तरं ह्यादश्वाकृतावरोहस्य कुतावतरणस्यास्य नलस्योपानही वर्मणी पादत्राणे । 'पादत्राणे उपानही' इत्यमरः । पदे चरणे तयोर्वनयोः सलिलकाननयोः 'वने सलिलकानने' इत्यमरः । प्रवाल: पल्लवैः तथाम्बुजैः पद्मवेत्यर्थः, 'सहार्थे तृतीया' नियोद्धुं कामोऽभिलाषो ययोस्ते नियोद्धुकामे युद्धकामे इत्यर्थः । ' तुं काममनसोरपी'ति तुमुनो मकारलोपः, अतो बद्धवर्म्मणी किमु बद्धकवचे इव ते रेजतुः किमित्युत्प्रेक्षा ॥ १२३ ॥
अन्वयः -- ततः ह्यात् कृतावरोहस्य अस्य उपानही बिभ्रती पदे तयोः वनयोः प्रवालैः तथा अम्बुज : नियोद्धुकामे बद्धवमंणी रेजतुः किमु ?
हिन्दी - तदनंतर घोड़े से उतरे इस ( नल) के जूता -पहिने पैर दोनो