________________
१०२
महाकाव्यम्
स्तस्याङ्कुरं रागमहीरुहाङ्कुरं विभ्रतं चञ्चुपुटमिषेण द्विपत्रितं बालिका गोचररागं चरणमिषेण पल्लवितं युवतीविषये रागञ्च बिभ्रतमित्यर्थः । ईदृशं हंसम बोघीति पूर्वेणान्वयः । ' नाभ्यस्ताच्छतुरिति नुम्प्रतिषेघः, वृक्षाङ्कुरो हि प्रथमं द्विपत्रितो भवति, पश्चात् पल्लवित इति प्रसिद्धम् । तत्र रागं बिभ्रतम् इति हंस विशेषणात् तद्रागस्य हंसा धिकरणत्वोक्तिः, प्रियास्वधिकरणभूता स्वित्युपाध्याय विश्वेश्वरव्याख्यानं प्रत्याख्येयम्, अन्यनिष्टस्य रागस्यान्याधिकरणत्वायोगात् न चायमेक एवोभयनिष्ठ इति भ्रमितव्यम्, तस्येच्छा परतरपर्यायस्य तथात्वायोगात् बुद्ध्यादीनामपि तथात्वापत्ती सर्वसिद्धान्तविरोंधात् विषयानुरागाभावप्रसङ्गाच्च उभयोरपि रागत्वसाम्यादुभयनिष्ठभ्रमः केषाञ्चित्कस्मात्का मिनोरन्योन्याधिकरण रागयो रन्योन्यविषयत्वमेव नाषिकरणत्वमेवमिति सिद्धान्तः, प्रिया स्विति विषयसप्तमी, न त्वाधारसप्तमीति सर्वं रमणीयम् । अत्र रागमही रुहाङ्कुर मिति रूपकं चञ्च चरणमिषेणेत्यपह्नवानुप्राणितमिति सङ्करः । तेन स बाह्याभ्यन्तररागयोर्भेदे अभेदलक्षणातिशयोत्थापिता चञ्चु चरणव्याजेनान्तरस्येव बहिरङ्कुरितत्वोत्प्रेक्षा व्यज्यत इत्यलङ्कारेणालङ्कारध्वनिः ॥ ११७-११८ ।।
अन्वयः - पयोधिलक्ष्मीमुषि तंत्र केलिपल्वले सः नैषधः रिरंसुहंसी कलनादसादरं बालासु रतिसमासु च प्रियासु चञ्च्चोः चरणद्वयस्य च मिषेण द्विपत्रितं पल्लवितं च स्मराजितं रागमहीरुहाङ्कुरं बिभ्रतम् अन्तिके विचरन्तं चित्रं हिरण्मयं हंसम् अबोधि ।
हिन्दी - ( उपर्युक्त प्रकार से ) समुद्र की श्री के अपहर्त्ता ( सागरतुल्य ) उस क्रीडा सरोवर में उस निषधराज ने रमणेच्छुका हंसियों के अव्यक्त मधुर स्वर में साभिलाष, बाला और रमण में समर्थ स्व प्रियाओं के मध्य चोंचो और चरणयुगल के मिस दो पत्तियों और पल्लवो से युक्त कामसमुत्पन्न अनुराग-रूप वृक्ष के अंकुर को धारण कर निकट ही विचरण करते विचित्र स्वर्णमय हंस को देखा ।
टिप्पणी- - इस 'युग्म' में विचित्र स्वर्णहंस के दृष्टिपथ में आने का वर्णन है । 'अंतिके विचरन्तम्' का अर्थ हंसियों के समीप ही नहीं, क्रीडासर के