________________
प्रथमः सर्गः
१०१
मानस्य पक्षान् धुवतः कम्पयतो मैनाकमहीभृतस्तदाख्यस्य पर्वतस्य सपक्षतां साम्यं ततानेत्युपमा ॥ ११६ ॥
अन्वयः-यदम्बुपरप्रतिबिम्बतायतिः मरुत्तरङ्गः तरलः तटद्रमः निमज्ज्य सतः पक्षान् घुवतः मैनाकमही मृतः सरक्षतां ततान ।
हिन्दी--जिस ( सरोवर ) के जल-प्रवाह में जिसकी दीर्घता प्रतिविम्बित हो रही थी, ऐसा वायु-प्रकंपित लहरों वाला तीरवर्ती वृक्ष पानी के भीतर छिपकर रहते मैनाक पर्वत की समानता का विस्तार कर रहा था ।
टिप्पणी-समुद्र के अन्तवर्ती मैनाक पर्वत के साम्य में तट-वृक्ष के प्रतिबिम्ब की कल्पना । उपमा ॥११६॥
(युग्मम् ) पयोधिलक्ष्मीमुपि केलिपल्वले रिम्सुहंसीकलनादसादरम् । स तत्र चित्र विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः ॥ ११७ ॥ प्रियासु बालासु रतिक्षमासु च द्विपत्रितं पल्लवितञ्च बिभ्रतम् । स्मराजितं रागमहीरुहाङ्करं मिषेण चञ्च्वोश्चरणद्वयस्य च ॥ ११८॥
जीवात् - पयोधीति । अथ च नैषधो निषधानां राजा नल:, 'जनपदशब्दात् क्षत्रियादजि' त्यञ् पयोधिलक्ष्मीमुषि तत्सदृश इत्यर्थः । अत्र के लिपल्वले क्रीडासरति रिरंसूनां रन्तुमिच्छूनां हंसीनां कलनादेषु सादरं सस्पृहं तत्रान्तिके तत्समीपे विचरन्तं चित्रमद्भतं हिरण्मयं सुवर्णमयं 'दाण्डिनायना'दिना निपातनात् साधुः । हंसमबोघि ददर्शेत्यर्थः । 'दीपजने'त्यादिना कर्त्तरि चिण् । पुनस्तमेव विशिनष्टि-प्रियास्विति । बालासु अरतिक्षमासु किन्त्वासन्नयौवनास्वित्यर्थः । अन्यथा रागाकुरासम्भवात् । रतिक्षमासु युवतीषु द्विविधासु प्रियासु विषये क्रमाञ्चञ्च्वोस्त्रोटयोः 'चञ्चुस्त्रोटिरुभे स्त्रियामि'त्यमरः । चरणद्वयस्य च मिषेण द्विपत्रितं सजातद्विपत्रं पल्लवितं सजातपल्लवञ्च चञ्च्वोर्द्वयोः सम्पुटितत्वे साम्याद् द्विपत्रित्वं चरणयोस्तु विभ्रमरागमयत्वेन पल्लवसाम्यात्पल्लवत्वं राजहंसानां लोहितचञ्चुचरणत्वात् तस्मिन् मिषेणेत्युक्त स्मराजितं स्मरेणव वृक्षरोपणेनोत्पादितमित्यर्थः । राग एव महीरुह