________________
८५
प्रथमः सर्गः
जीवातु - युवेति । युवाच युवती च तयोर्यूनोर्द्वयी मिथुनं तस्याश्चित्तयोः कर्मणोनिमज्जने ण्यन्ताल्लुट् उचितैः क्षमः प्रसून: पुष्पबाणैः शून्येतरदशून्यं पूर्ण गर्भगह्वरं गर्भकुहरं यस्य तत् पाटलाया: पाटलवृक्षस्य स्तवकं कुसुमगुच्छभियान्धया भयमूढया घिया भयजन्यभ्रान्त्येत्यर्थः । स्मरेषुधी कृत्य कामतूणीकृत्य तथा विभ्रम्य इत्यर्थः, अत एव भयात् प्रकम्पितश्चकम्पे | अत्र पाटलस्तबके मदनतूणीरभ्रमात् भ्रान्तिमदलङ्कारः । ' कविसंमतसादृश्याद्विषये विहितात्मनि । आरोप्यमाणानुभवो यत्र त भ्रान्तिमान्मतः ।।' इति लक्षणात् ॥ अन्वयः -- युवद्वयीचित्तनिमज्जनोचितप्रसून शून्ये तर गर्भगह्वरं स्तबकं भियान्धया धिया स्मरेषुधीकृत्य सः प्रकम्पितः ।
पाटलाया:
हिन्दी - - तरुण-तरुणी के बिंधे चित्तों के मध्य डूब जाने योग्य फूलों से जिसका भीतरी भाग परिपूर्ण है, ऐसे पाटल के गुच्छे में भय से अंधी बुद्धि ( विवेकहीनता ) के कारण कामबाणों की भ्रांति से वह कंपित होने लगा ।
टिप्पणी-- राजा ने समझा कि यह पाटलस्तबक नहीं बाणों से परिपूर्णं काम का तूणीर है । उद्दीपन । मल्लिनाथ ने यहाँ भ्रांतिमान् अलंकार का निर्देश किया है, विद्याधर ने रूपक और अनुप्रास का ।। ९५ ।।
मुद्रिमः कोरकितः शितिद्युतिर्वनेऽमुनाऽमन्यत सिंहिकासुतः । तमिस्रपक्षत्रुटिकूट भक्षितं कलाकलापं किल वैधवं वमन् ॥ ९६ ॥
जीवातु - - मुनीति । अमुना नलेन वने कोरकितः सञ्जातको रकः शितिद्युतिः पत्रेषु कृष्णच्छविः मुनिद्रुमोऽगस्त्यवृक्षः तमिस्रपक्षे त्रुटिकूटेन क्षयव्याजेन भक्षितम् भक्षितत्वे कुतः क्षय ? इति भावः । अत्र कूटशब्देन क्षयोपवेन भक्षणारोपादपह्नवभेदः । वैधवं चन्द्रसम्बन्धि 'विधुः सघांशुः शुभ्रांशुरि' त्यमरः । कलाकलापङ्कला समूहं वमन्नुद्गिरन् सिंहिकासुतो राहुरमन्यत किल खलु ? अत्र कोर कितशितद्युतित्त्वाभ्यां मुनिद्रुमस्येन्दुकलाकलापवमनविशिष्ट राहुत्वोत्प्रेक्षा, सा चोक्तापह्नवोत्थापितेति सङ्करः ॥ ९६ ॥
अन्वयः -- वने कोरकितः शितिद्युतिः मुनिद्रुमः अनेन तमिस्रपक्षत्रुटिकूटभक्षित वैधवं कलाकलापं वमन् सिंहिकासुतः अमन्यत किल ।