________________
६४
नैषधमहाकाव्यम् णोऽस्त्रियामि'त्यमरः। 'पद्दन्नि'त्यादिना पदादेशः। अक्रामि अलङ्घि, तस्य खस्य चतुभिः पदैः क्रमणे लङ्घने कृते सत्यपीति शेषः । हरीणां वाजिनां विष्णूनां चेति गम्यते, 'यमानिलेन्द्र चन्द्रार्कविष्णुसिंहाशुवाजिषु । शुकाहिकपिभेकेषु हरिना कपिले त्रिष्वि'त्यमरः। उभयत्रापि नोऽस्माकं त्रपति वेत्यर्थः । गम्यार्थत्वादिवशब्दस्याप्रयोगः । अत एव गम्योत्प्रेक्षा । नम्रितानि निम्नीकृतानि आन' नानि यस्तैः हरिभिः अर्द्ध नभसि कृतक्रमः कृतलङ्घनैः सद्भिर्त्यवत्तिं निवत्तितम्, भावे लुङ्। यदन्येन पुंसा लघूपायेन साधितं तस्य गुरूपायेन करणं समा. नस्य लाघवाय भवेदिति भावः। एतेन प्लुतगतिरुक्ता, तत्र गगनलंघनस्य सम्भवादिति भावः ॥ ७० ॥
अन्वयः-यत् रवं हरेः एककेन पदा अक्रामि तस्य चतुभिः पदैः अपि क्रमणे नः हरिणां त्रपा-इति नम्रिताननः अर्द्धनमःकृतक्रमः तः न्यति ।
हिन्दी-जिस आकाश का हरि (वामनावतार विष्णु ) ने एक चरण से ही क्रमण--लंघन कर लिया था, उसका लंघन चार पैरों से भी करने में हम बहुत-से हरियों (घोड़ों) के लिये लज्जा की बात है--इसी से नीचे को मुंह करके आधे गगन के प्रति पदक्षेप करने वे घोड़े मानों लौट आये।
टिप्पणी--'हरि' शब्द के चमत्कारी प्रयोग के आधार पर सुंदर कल्पना । मल्लिनाथ के अनुसार गम्योत्प्रेक्षा, विद्याधर के अनुसार प्रतीयमानोत्प्रेक्षा और श्लेष ॥७॥
चमूचरास्तस्य नृपस्य सादिनो जिनोक्तिषु श्राद्धनयेव सैन्धवाः। विहारदेशं तमवाप्य मण्वलीमकारयन् भूरितुरङ्गमानपि ।। ७१ ॥
जीवातु-चमूचरा इति । तस्य नृपस्य चमूचराः सेनाचराः चोष्टच्, सिन्धुदेशभवाः सैन्धवाः अश्वाः, 'हयसैन्धवसप्तय' इत्यमरः। 'तत्र भव' इत्यणप्रत्ययः, तत्सम्बंधिनोऽपि सैन्धवा 'तस्येदमि'त्यणा ते सादिनः अश्वसादिन इत्यर्थः, जिनोक्तिषु श्राद्धतयेव जैनदर्शनश्रद्धालुतयेवेत्युत्प्रेक्षा, 'श्रद्धा वृत्तिभ्योऽणि'ति मत्वर्थो योऽणप्रत्ययः, तं विहारदेशं सञ्चारभूमि सुगतालयञ्च 'विहारो भ्रमणे स्कन्धे लीलायां सुगतालय' इति विश्वः । अवाप्य तुरङ्गमान् भूरि बहुलं मण्डलीमपि मण्डलाकारं च अकारयन् अपिशब्दोऽवाप्तिसमुच्चयार्थः । अन्यत्र मण्डली