________________
४८
नषधमहाकाव्यम्
जीवातु-अथास्य जागरावस्थामाह-अपह नुवानस्येति । निजामधीरतां चपलत्वं अनायापह नुवानस्यापलपतः 'श्लाघह नुस्थेति' त्यादिना सम्प्रदानत्वाच्चतुर्थी । अस्य नलस्य मनोभुवा कामेन यज्जागरप्रलापादिकं कृतन्तत्सर्वं जागरदुःखस्य साक्षिणी 'साक्षाद्र्ष्टरि संज्ञायामिति साक्षाच्छब्दादिनिप्रत्यये ङीप् । शशाङ्केन कोमला रम्या निशा चाबोधि । 'दीपजने'त्यादिना कर्त्तरि च्लेश्चिणादेशः। तथा शशाङ्कवत्कोमला मृदुला शय्या अबोधि, निशायां शय्यायां जागरणयोस्तत्साक्षित्वमिति भावः ॥ ४९ ।।
अन्वयः-निजाम् अधीरतां अपह्न वानस्य अस्य मनोभुवा यत् कृतं तत् जागरदुःखसाक्षिणी शशांककोमला निशा शय्या च अबोधि ।
हिन्दी-अपनी अधीरता को छिपाते इस ( नल ) की मनोमव काम ने जो दुर्दशा की, उसे जागरण के कष्ट की गवाह चंद्र से मनोहर चांदनीरात और खरहे के अंक के समान मुलायम अथवा चंद्रतुल्य धवल आवरण से युक्त अथवा चंद्र अर्थात् कपूर छिड़क कर शीतल बनायी गयी शय्या ही जान पायी।
टिप्पणी-इस श्लोक में नल का उत्कट विरह और लज्जाशीलता द्योतित है । उसके मन की पीर को रात और शय्या के अतिरिक्त कोई न जान सका। 'साहित्यविद्याधरी' के अनुसार इसमें श्लेष है और 'चंद्रकला' के अनुसार तुल्ययोगिता और उपमा ॥४९॥
स्मरोपतप्तोऽपि भृशं न स प्रभुर्विदर्भराजं तनयामयाचत ! त्यजन्त्यसूशर्म च मानिनो वरं त्यजन्ति न त्वेकमयाचितव्रतम्।।५०॥
जीवातु-ननु किमनेन निबन्धनेन, याच्यताम्भीमभूपतिर्दमयन्तीम्, नेत्याहस्मरेत्यादि भृशं गाढं स्मरोपतप्तः कामसन्तप्तोऽपि प्रभुः समर्थः स नलः विदर्भराजं भीमनृपतितनयां दमयन्तीं न अयाचत न याचितवान् 'दुहियाची'त्यादिना याचेद्विकर्मकता । तथाहि-मानिनो मनस्विनोऽत्युच्चमनस्काः प्राणान् शर्म च सुखञ्च त्यजन्ति एतत्त्यागोऽपि वरं मनाक् वरमिति मनागुत्कर्ष इति महोपाध्यायवर्द्धमानः। किन्तु, एकमद्वितीयकयाचितव्रतम् अयानानियमन्नु न त्यजन्ति, मानिनां प्राणत्यागदुःखाद् दुःसहं याच्ञाया दुःखमित्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ५० ॥