________________
नैषधमहाकाव्यम्
___ जीवातु-अमुष्येति । स स्मरः साहसी साहसकारः 'न साहसमनारुह्य नरो भाणि पश्यती'ति न्यायादविलम्बी सन्नित्यर्थः । अमुष्य धीरस्य अविचलितस्य नलस्य जयाय शराशनज्यां निजघनुमौंर्वी विशिखैः शरैः सनाथयन् सनाथं कुर्वन् संयोजयन्नित्यर्थः, त्रयाणां लोकानां समाहारस्त्रिलोकी 'तद्धितार्थे'त्यादिना समासः, 'अकारान्तोत्तरपदो द्विगुः स्त्रिया मिष्यत' इति स्त्रीलिङ्गत्वात् 'द्विगोरि'ति ङीप् । तस्य विजयेनार्जितानि सम्पादितान्यपि यशांसि संशये निमज्जयामास किं पुनः सम्प्रति सम्पाद्यमित्य पि शब्दार्थः । वृद्धयपेक्षया अनुचितकर्मारम्भे मूलमपि नश्ये दिति संशयितवानित्यर्थः । अत्र स्मरस्योक्तसंशयाऽसम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिः ।। ४५ ।।
अन्वयः-साहसी स्मरः धोरस्थ अमुष्य जयाय तदा ज्यां विशिखैः सनाथयन् त्रिलोकीविजयार्जितानि अपि यशांसि संशये निमज्जयामास खलु ।
हिन्दी-साहसशील काम ने धैर्यवान् उस ( नल ) के जय के निमित्त उस काल प्रत्यंचा को बाणों से सनाथ करते (धनुष की डोरी पर बाण चढ़ाते) हुए तीनों लोकों के विजय से प्राप्त भी यशः समूह को कदाचित् संशय में डाल दिया था।
टिप्पणी-नल को जीतना जोखिम का काम था। इसकी पूरी संभावना थी, त्रिलोकजयी काम को जो जगद्विजयी होने का यश प्राप्त था, वह नल पर आक्रमण करके असफल होने पर मिट जाता, अतः उसने एक नहीं, अनेक बाण (विशिखैः ) डोरी पर चढ़ाये । काम का अविवेकी होना और नल का अत्यन्त धैर्यवान होना संकेतित है। असंबंध में संबंध-कथन के कारण यहाँ अतिशयोक्ति है।
अनेन भैमी घटयिष्यतस्तथा विधेरबन्ध्येच्छतया व्यलासि तत् । अभेदि तत्तादृगनङ्गमार्गणैर्यदस्य पौष्पैरपि धैर्यकञ्चकम् ॥ ४६ ॥
जोवातु--दैवसहायात् पुष्पेषोरेव पुरुषकारः फलित इत्याह-अनेनेति । अनेन नलेन सह भैमी घटयिष्यतः योजयिष्यतो विधेर्विधातुरबन्ध्येच्छतया अमोघसङ्कल्पत्वेन यत्तस्मात्तथा तेन प्रकारेण योऽग्रे वक्ष्यत इति भावः। व्यलासि विलसितं लसते वे लुङ् । यत् पौष्पैरपि न तु कठिन रनङ्गस्य न तु देहवत: मार्गणधैर्य्यमेव कञ्चुकमस्य नलस्य अभेदि भिन्नं, कर्मणि लुङ् । दमयन्तीनलयोर्दाम्पत्यघटनाय अनङ्गमार्गणैनलधर्यकञ्चुकभेदनाद्विधेरबन्ध्येच्छत्वं