SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४८ किरातार्जुनीयम् रक्त है। अतः दुर्योधन को हराना सरल कार्य नहीं होगा। इसके लिए विशष प्रयत्न की आवश्यकता है। (२) 'दर्शयते' (दिखलाता है, प्रदर्शित करता है) पद के द्वारा महाकवि ने दुर्योधन की चालाकी और बनावटीपन को अभिव्यक किया है । दुर्योधन बड़ा कुटिल है किन्तु प्रजा को प्रसन्न करने के लिए वह सबके साथ बहुत अच्छा व्यवहार कर रहा है। (३) उपमा अलंकार। कुछ लोग चतुर्थ चरण में उत्प्रेक्षा मानते हैं। सकार, नकार इत्यादि की अनुवृत्ति होने के कारण अनुप्रास अलंकार भी है। घण्टापथ-सखीनिवेति । गतस्मयो निरहङ्कारोऽत एव स दुर्योधनः सन्ततम् अनारतं साधु सम्यक् अकपटमित्यर्थः। अनुजीविनः भृत्यान् । प्रीतियुजः स्निग्धान् सखीनिव मित्राणीव । दर्शयते। लोकत्येति शेषः "हेतुमति च' इति णिच् । णिचश्व' इत्यात्मनेपदम् । शोभनं हृदयं येषां तान सुहृदो मित्राणि च । 'सुहृदुहृदो मित्रामित्रयोः' इति निपातः। बन्धुभिः भ्रात्रादिभिः । समानमानान् तुल्यसत्कारान् दर्शयते । बन्धूनां समूहो बन्धुता ताम् । 'ग्रामजनबन्धुसहायेभ्यस्तल'। कृतमाधिपत्यं स्वाम्यं यस्यास्तां कृताधिपत्यामिव दर्शयते । बन्धूनधिपतीनिव दर्शयतीत्यर्थः । यथा भृत्यादिषु सख्यादिबुद्धिर्जायते लोकस्य तथा तान् सम्भावयतीत्यर्थः। अनुजीव्यादीनाम "कर्तुरीप्सिततमं कर्म' इति कर्मत्वम् । पूर्वे त्वस्मिन्नेव पदान्वये वाक्यार्थमित्थं वर्णयन्ति–स राजाऽनुजीव्यादीन सख्यादीनिव दर्शयते। सख्यादय इव ते तु तं पश्यन्ति । सख्यादिभावेन पश्यतस्तांस्तथा दर्शयते । स्वयमेव छन्दानु वर्तितया स्वदर्शनं तेभ्यः प्रयच्छतीत्यर्थः। अर्थात्तस्येप्सितकर्मत्वम् । अणिकर्तुरनुजीव्यादेः 'अभिवादिदृशोसन्मनेपदे वेति वाच्यम्' इति पाक्षिक कर्मत्वम् एवं चात्राण्यन्तकर्मणो राज्ञो ण्यन्ते कर्तृत्वेऽपि 'आरोहयते हस्ती स्वयमेव इत्यादिवदश्रयमाणकर्मान्तरत्वाभावान्नायं णेरणादिसूत्रस्य विषय इति मत्वा 'णिचश्च' इत्यान्मनेपदं प्रतिपेदिरे । भाष्ये तु णेरणादिसूत्रविषयत्वमप्यस्योक्तम् यथाह–'पश्यन्ति भृत्या राजानम्', 'दर्शयते भृत्यान् राजा', 'दर्शयते भृत्यै राजा' अत्रात्मनेपदं सिद्धं भवति इति । अत्राह कैयटः ननु कर्मान्तरमद्भ वादत्रात्मनेपदेन माव्यम् । उच्यते-अस्मादेवोदाहरणाद भाष्यकारस्यायमेव
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy