________________
४४
किरातार्जुनीयम् तथोक्तेन कृतारिषड्वर्गजयेन विनीतेनेत्यर्थः। विनीताधिकार प्रजापालनमिति भावः। अगम्यरूपां पुरुपमात्रदुष्प्राप्याम् । मनोरिमां मानवीम् । मनूपदिष्ट सटाचारक्षुण्णामित्यर्थः । पदवी प्रजापालनपद्धति प्रपित्सुना प्रात्तुमिच्छना । प्रपद्यते: सन्नन्तादुप्रत्ययः । 'सनिमीमा'-इत्यादिना सादेशः । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । अस्ता तन्द्रिरालस्यं यस्य तेन अस्ततन्द्रिणा अनलसेनेत्यर्थः । तदिः सौत्रो धातुः । तस्माद् 'वक्रयादयश्च' इत्यौणादिकः क्विन्प्रत्ययः 'कृदि. कारादक्तिनो वा ङीष वक्तव्य' इति । 'वन्दी घटीतरीतन्द्री' इति डोषन्तोऽपि इति क्षीरस्वामी । तथा रामायणे प्रयोगः 'निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित्' इति । तेन दुर्योधनेन । पुरुषत्य कर्म पौरुषं पुरुषकारः। उद्योग इति यावत् । युवाटित्वाटप्प्रत्ययः । 'पौरुषं पुरुषस्योक्ते भावे कर्मणि तेजसि' इति विश्वः । नक्तंच दिवा च नक्तन्दिवम् अहोरात्रयोरित्यर्थः । 'अचतुर' इत्यादिना सतम्यर्थवृत्योरध्ययो दनिगतेऽच्समासान्तः। विभज्य अत्यां वेलायाम् इदं कर्मेति विभागं कृत्वा नयेन नीत्या वितन्यते विस्तार्यते ॥६॥ सखोनिव प्रीतियुजोऽनुजोविनः समानमानान् सुहृदश्च बन्धुभिः । स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु वन्धुताम् ॥१०॥
अ०-तस्मयः स. अनुजीविनः प्रीतियुजः सखीन् इव सुहृदः च चन्धुभिः समानमानान् इव, वन्धुतां च कृताधिपत्याम् इव सन्ततं साधु दशयते।
श-तस्मयः = विनष्ट हो गया है अभिमान ( अहंकार, घमण्ड) जिसका ऐसा, घमण्डरहित, अभिमानरहित । सः = वह (दुर्योधन)। अनुजीविनः = सेवकों (भृत्यों, अनुचरों) को। प्रीतियुजः सखोन इव% प्रेम से युक्त (स्नेहशील, स्नेहयुक्त) मित्रों की तरह (समान, तुल्य)। सुहृदः च% और मित्रों को। बन्धुभिः समानमानान् इव = बन्धुओं (भ्राता इत्यादि) के समान सत्कार ( सम्मान, आदर) वाले । बन्धुतां च = और बन्धुसमूह (बन्धुजनों) को। कृताधिपत्याम् इव = किया है आधित्य जिन्होंने