________________
प्रथमः सर्गः द्विकर्मफत्वम् । स हितानुपदेष्टा । कुत्सितः सखा किंसखा दुर्मन्त्रीत्यर्थः । "किमः क्षेपे' इति समासान्तप्रतिषेधः । तथा यः प्रभुनिग्रहानुग्रहसमर्थः स्वामी। हितात, आप्तजनाद्धितोपदेष्टुः सकाशात् । 'आख्यातोपयोगे' इत्यपादानात् पञ्चमी । न संशृणुते न शृणोति हितमिति शेषः। 'समो गम्यच्छि' इत्यादिना सम्पूर्वाच्छणोतेरफर्मकादात्मनेपदम् । अकर्मफत्वं वैवक्षिकम् । स हितमश्रोता । कुत्सितः प्रभुः किम्प्रभुः कुत्सितस्वामी । पूर्ववत् समासः । सर्वथा सचिवेन वक्तव्य ओतव्यं च स्वामिना। एवं च राजमन्त्रिणोरैकमत्यं स्यादित्यर्थः। ऐकमत्यस्य फलमाह-सदेति । हि यस्मात् । नृपेषु स्वामिषु । अमा सह भवा अमात्यास्तेषु अमात्येषु च । 'अव्ययाच्यप' । अनुकूलेषु परस्परानुरक्तेषु सत्सु । सर्वसम्पदः सदा रतिम् अनुरागम् । कुर्वते कुर्वन्ति । न जातु जहतीत्यर्थः । अतो मया वक्तन्यं त्वया च श्रोतव्यमिति भावः। अत्रैवं राजमन्त्रिणोहितानुपदेशतदश्रवणनिन्दासामर्थ्यसिद्धरैकमत्यलक्षणकारणस्य निर्दिष्टस्य सर्वसम्पत्सिद्धिरूपकायेण कारणसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः। तदुक्तम्-"सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः" इति ।। ५ ।। निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । तवानुभावोऽयमवेदि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥६॥
अ०-निसर्गदुर्बोधं भूपतीनां चरितं क्व ? अबोधविक्लवाः (मादृशाः) जन्तवः क्व ? (तथापि ) विद्विषां निगूढतत्त्वं नयवर्त्म यत् मया अवेदि, अयं तव अनुभावः ।।
श०-निसर्गदुर्बोधं = स्वभाव से ही दुर्बोध ( कठिनता से जानने योग्य, समझने में कठिन)। भूपतीनां चरितं = राजाओं का चरित्र (व्यवहार, आचरण, नीति)। क्व = कहाँ। अज्ञानविक्लवाः = अज्ञान से अभिभूत ( उपहत ), अज्ञान से नष्ट हुई बुद्धि वाले, अज्ञानपूर्ण, अज्ञानी, अविवेकी । जन्तवः क्व = ( मुझ जैसे) प्राणी ( जीव, पुरुष) कहाँ। विद्विषां = शत्रुओं (दुर्योधन इत्यादि कौरवों) का निगूढतत्त्वं = अत्यन्त गुप्त तत्व (रहस्यों)