________________
किरातार्जुनीयम् वैचित्र्यविशेषस्याप्पलङ्कारत्वादेवं व्याचक्षते। विधातुं व्यापार फतुम् इच्छतः समानत केषु तुमुन् । द्विषो विहन्तुमुद्युक्तज्ञानस्येत्यर्थः। अतएव भूभृतो युधिष्ठिरस्य । रहसि एकान्ते अनुज्ञाम् अधिगम्य । सुष्ठु भावः सौष्ठवं शब्दसामर्थ्यम् । सुष्ठुशन्नादन्ययादुद्गात्रादित्वादप्रत्ययः । उदारस्य भावः औदार्यम् अर्थ सम्पत्तिः । तयोद्वन्द्वः सौष्ठवौदायें । अत्रौदार्यशब्दस्याजाद्यन्तत्वेऽपि 'लक्षणहेत्वोः क्रियायाः' इत्यत्राल्पस्वरत्यापि हेतुशब्दस्य पूर्वनिपातमकुर्वता मूत्रकृतैव पूर्वनिपातस्यानित्यत्वज्ञापनान्न पूर्वनिपातः । उक्तं च काशिकायामअयमेव लक्षणहेत्वोरिति निर्देगः । 'पूर्वनिपातव्यभिचारचिह्नमिति ।' त एव विशेषः तयोर्वा विशेषः तेन शालते शोभत इति सौष्ठवौदार्यविशेपशालिनी ताम | ताच्छील्ये णिनिः । विनिश्चितार्थी विशेषतः प्रमागतो निर्णीतार्थामिति बक्ष्यमाणरूपां वाचं वाक्यम् । आददे स्वीकृतवान् । उवाचेत्यर्थः ।। ३ ॥ क्रियासु युक्तेनुप! चारचक्षुषो न वचनीयाः प्रभवोऽनुजीविभिः । अतोऽहंसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ॥४॥ ___ अ०-नृप ! क्रियासु युक्तैः अनुजीविभिः चारचक्षुषः प्रभवः न कञ्चनीयाः । अतः असाधु साधु वा (मम वचनं) क्षन्तुम् अर्हसि । ( यतः) हितं मनोहारि च वचः दुर्लभम् ।।
श०-नृप! = हे राजन् ! । क्रियासु युक्तः = कार्यों में निगेजित (लगाये गये, नियुक्त किए गए) । अनुन्नीविभिः = सेवकों (अनुचरों, भृत्यों) के द्वारा | चारचक्षुष. = गुमचर (चार) ही नेत्र हैं जिनके ऐसे, गुप्तचरों के द्वारा देखने वाले। प्रभवः = स्वामी (राजा लोग)। न वचनीयाः = नहीं ठगे जाने चाहिए, (मिथ्या भाषण करके) ठगने (छलने, घोखा देने) योग्य नहीं हैं । असाधु = अप्रिय, असमीचीन, कटु, बुरा । वा = अथवा । साधु = प्रिय, समीचीन, मधुर, भला । क्षन्तुम् अर्हसि = क्षमा करें, क्षमा करने के योग्य हो। हितं = हितकर, कल्याणकर । मनोहारि = मनोहर, त्रिय, मधुर, मन को अच्छा लगने वाला । वचः = वचन, कथन । दुर्लभम् = कठिनता से मिलने (प्राप्त होने) वाला ( होता है)।