________________
प्रथम सर्गः पीताः इति । अत्र लोपशब्दार्यमाह कैयट:-गम्यायस्याप्रयोग एव लोपोऽभिमतः । 'विभका भ्रातरः' इत्यत्र च धनस्य यद् विभक्तत्वं तद् भ्रातृषूपचरितम् । 'पीतोदका गावः' इत्यत्रापि उदफस्य पीतत्व गोष्वारोप्यते इति । तद्वदत्रापि वृत्तिगतं विदितत्वं वेदितरि वनेचर उपचर्यते । एतेन' 'वनाय पीतप्रतिबद्धवत्ताम्', 'पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या' एवमादयो व्याख्याताः। अथवा विदितो विदितवान् । सकर्मकादप्यविवक्षिते कर्मणि कतरि क्तः। यथा 'आशितः कर्ता इत्यादौ। यथाः-"घातोरान्तरे वृतेर्धात्वर्थेनोपसङ ग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया ।" इति । द्वैतवने द्वैताख्ये तपोवने । यद्वा द्वे इते गते यस्मात् तद् द्वोतम् । द्वोतमेव द्वैतम् । तच्च तद्वनञ्च तस्मिन् । शोकमोहादिवर्जित इत्यर्थः । युधि रणे स्थिरं युधिष्ठिरं धर्मराजम् । 'हलदन्तात् सतम्याः संज्ञायाम्' इत्यलुक् । 'गवियुधिभ्यां स्थिरः' इति षत्वम् । समाययौ सम्प्राप्तवान् । अत्र 'वने वनेचरः' इति द्वयोः स्वरव्यञ्जनसमुदाययोरेकधैवावृत्या वृत्त्यनुप्रासो नामालङ्कारः। अस्मिन् सर्ग वंशस्थवृत्तम् । तल्लक्षणम्-'जतौ तु वंशस्थमुदीरितं जरौ' इति ॥ १॥ कृतप्रणामस्य महों महोभुजे जितां सपत्नेन निवेदयिष्यतः। न विव्यथे तस्य मनोन हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः॥२॥
अन्वयः-कृतप्रणामस्य सपत्नेन जितां महीं महीभुजे निवेदयिष्यतः तस्य मनः न विव्यथे । हि हितैषिणः मृषा प्रियं प्रवक्तुन इच्छन्ति ।
शब्दार्थः-कृतप्रणामस्य = कर लिया गया है (युधिष्ठिर को) नमस्कार (प्रणाम) जिसके द्वारा ऐसे, (युधिष्ठिर को) नमस्कार कर लेने वाले । सपत्लेन = शत्रु (दुर्योधन) के द्वारा । जितां = जीती हुई, वश में की हुई, अपने अधिकार में (अपने अधीन) की हुई। महीं = पृथ्वी (राज्य) को, ( पृथ्वी के विषय में ) । महीभुजे = राजा ( युधिष्ठिर ) के लिए । निवेदायष्यतः = निवेदन करते हुए, कहते हुए । तस्य = उस (किरात) का । मनः न विव्यथे = मन (चित्त) व्यथित (दुःखित, भयभीत, विचलित) नहीं हुआ। हि = क्योंकि । हितैषिणः = हित (भलाई, कल्याण, मङ्गल)