SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २४ किरातार्जुनीयम् वंशस्थ छन्द में हैं। इस छन्द का लक्षण यह है—'जतौ-तु वंशस्थमुदीरितं जरौ।' इस छन्द में क्रमशः जगण, तगण, जगण और रगण होते हैं । (७) 'वर्णिलिङ्गी' में कुछ लोग 'अश्लीलत्व' दोष की संभावना करते हैं फिन्तु जिस प्रकार 'शिवलिङ्ग', 'भगिनी', 'ब्रह्माण्ड' इत्यादि शब्द विशिष्ट अर्थ के वाचक होने के कारण दुष्ट (सदोष) नहीं हैं, उसी प्रकार 'वर्णिलिङ्गी' शब्द के प्रयोग में भी कोई दोष नहीं है । घण्टापथ:-त्रिय इति । आदितः श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धि तीवोपयुज्यते । तदुतम् 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः म्युलिपितो गणतोऽपि वा ॥' इति । कुरूणां निवासाः कुरवो जनपदाः। 'तत्य निवासः' इत्यण्प्रत्ययः । जनपदे लुप । तेषाम् अधिपस्य सम्बन्धिनीम् शेपे षष्ठी। श्रियोः राजलक्ष्म्याः । 'कत कर्मणोः कृति' इति कर्मणि षष्ठी । पाल्यतेऽनयेति पालनी ताम् पालनी प्रतिष्ठापिकामित्यर्थः। प्रजारागमूलत्वात' सम्पद इति भावः 'करणाधिकरणयोश्च' इति करणे ल्युट । 'टिड्ढाणा-' इत्यादिना ङीप् । प्रजासु जनेषु विषये । 'प्रजा स्यात् सन्ततौ जने' इत्यमरः ॥ वृत्तिं व्यवहारं वेदितुं ज्ञातुं यं वनेचरं अयुक्त नियुक्तवान् । वर्णः प्रशस्तिरस्यास्तीति वर्णी ब्रह्मचारी। तदक्तम्-'स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ।। एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥' एतदष्टविधमैथुनाभावः प्रशस्तिः । 'वर्णाद् ब्रह्मचारिणि' इतीनिप्रत्ययः । तस्य लिङ्ग चिह्नमस्यास्तीति वर्णिलिङ्गी ब्रह्मचारिवेष वानित्यर्थः । स नियुकः। वने चरतीति वनेचरः किरातः । 'भेदाः किरातशवरपुलिन्दा म्लेच्छजातयः' इत्यमरः । 'चरेष्टः' इती टप्रत्ययः । 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । विदितं वेदनमस्यास्तीति विदितः परवृत्तान्तज्ञानवानित्यर्थः। 'अर्श आदिभ्योऽच्' इत्यच् प्रत्ययः । उभयत्रापि 'पीता गाव.', 'भुक्ता ब्राह्मणाः', 'विभक्ता भ्रातरः' इत्यादिवत् साधुत्वम् । न तु कर्तरि क्तः। सकर्मकेभ्यस्तस्य विधानाभावात् । अत एव भाष्यकार:अकारो मत्वर्थीयः । विभक्तमेषामस्तीति विभक्ताः, पीतमेषामस्तीति पीताः इती सर्वत्र । अथवोत्तरपदलोपोऽत्र द्रष्टव्यः । विभक्तधना विभक्ताः, पीतोदकाः
SR No.009565
Book TitleKiratarjuniyam
Original Sutra AuthorMardi Mahakavi
AuthorVirendrakumar Sharma
PublisherJamuna Pathak Varanasi
Publication Year
Total Pages126
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy