________________
८२
कादम्बरी निद्राजिह्मितारं चक्षुरुन्मीलयत्सु शनैः शनैरूषरशय्या-धूसरक्रोडरोमराजिषु वनमृगेषु, इतस्ततः सञ्चरत्सु वनचरेषु, विजृम्भमाणे श्रोत्रहारिणि पम्पासरः कलहंसकोलाहले, समुल्लसति नतितशिखण्डिनि मनोहरे वनगजकर्णतालशब्दे, क्रमेण च गगनतलमवरतो दिवसकरवारणस्यावचूलचामरकलाप इवोपलक्ष्यमाणे मञ्जिष्ठारागलोहिते किरणजाले, शनैःशनैरुदिते भगवति सवितरि, पम्पासरःपर्यन्त-तरु-शिखर-सञ्चारिणि अध्यासित-गिरिशिखरे दिवसकरजन्मनि हृततारे पुनरिव कपीश्वरे वनमभिपतति बालातपे, स्पष्टे जाते प्रत्यूषसि, नचिरादिव प्रमातेत्यादि: = प्रमातस्य (प्रातःकालस्य ) य: शिशिरवायुः ( शीतवातः ) तेन आहतम् ( ताडितं स्पृष्टमिति भावः )। उत्तप्तेत्यादि:० = उत्तप्तः ( सन्तप्तः ) यो जतुरसः ( लाक्षाद्रवः ) तेन आश्लिष्टा (आलिङ्गिता, संयोजितेति माव: ), पक्ष्ममाला ( नयनलोमपङ्क्तिः ) यस्य तत्, इव, सशेषनिद्रा जिह्मतारं = सशेषा ( साऽवशेषा ) या निद्रा ( स्वापक्रिया ), तया जिह्मा ( वक्रा ) तारा ( कनीनिका ) यस्य तत् । तादृशं चक्षुः = नेत्रं, शनैः शनैः = मन्दं मन्दम्, उन्मीलयत्सु =विकासयत्सु सत्सु । अत्र क्रियोत्प्रेक्षा।
इतस्तत इति । इतस्ततः = यत्र तत्र, वनचरेषु = अरण्यचारिषु । सञ्चरत्सु = सञ्चरणं कुर्वत्सु । श्रोत्रहारिणि = कर्णाकर्षके, मधुरतयेति भावः । पम्पासरःकलहंसकोलाहले = पम्पासरसि (पम्पाऽऽख्यकासारे ) कलहंसानां ( कादम्बानां, हंसविशेषाणाम् ) कोलाहले ( कलकले ), विज़म्ममाणे = प्रसरति सति । नतितशिखण्डिनि = नर्तिताः ( नाटिता: ) शिखण्डिनः ( मयूरा: ) येन तस्मिन् । मनोहरे = चित्ताकर्षके, वनगजकर्णतालशब्दे = वनगजानाम् (अरण्यहस्तिनाम् ) कर्णतालशब्दे = ( श्रोत्रताडनध्वनौ ), समुल्लसति = संप्रसरति सति । अत्र गजकर्णतालशब्द मेघवनि बुद्ध्वा हर्षेण मयूरा नत्यन्तीति भ्रान्तिमान् “साम्यादतस्मिस्तद्बुद्धिान्तिमान्प्रतिमोत्थितः ।" इति साहित्यदर्पणः ।
क्रमेणेति । क्रमेण =परिपाटया, गगनतलम् = आकाशतलम्, अवतरतः = आरोहतः, दिवसकरवारणस्य =दिवसकरः (सूर्यः ) वारणः ( गजः ) इव, तस्य, अवचूलचामरकलापे =अवनता चूला ( अग्रम् ) यस्य सः, डलयोरभेदात् इवचूड: (अधोमुखः ) चामरकलाप: (प्रकीर्णकसमूहः ), तस्मिन्, इव, मञ्जिष्ठारागलोहिते = मञ्जिष्ठा ( विकसा ) तस्या रागः ( लौहित्यम् ) तेन इव लोहितम् ( रक्तवर्णम् ), तस्मिन् । “मञ्जिष्ठाविकसा जिङ्गी" इत्यमरः । किरणजाले = मयूखसमूहे. उपलक्ष्यमाणे = दृश्यमाने सति । अत्र द्वयोरुपमयोरङ्गाङ्गिभावेन सङ्कराऽलङ्कारः। भगवतिऐश्वर्यसम्पन्ने, सवितरि = सूर्ये, शनैः शनैः = मन्दं मन्दम् । उदिते = उदयप्राप्ते सति ।
पम्पासर इति । पम्पासर इत्यादिः = पम्पासरसः (पम्पाऽऽख्यकासारस्य ) पर्यन्ततरूणां (प्रान्तस्थितवृक्षाणाम् ) शिखरेषु (ऊर्ध्व भागेषु ) सञ्चरति (गच्छति ) इति तच्छोलस्तस्मिन् । अध्यासितगिरिशिखरे = अध्यासितम् ( आश्रितम् ) गिरिशिखरं (पर्वतशृङ्गम् ) येन, तस्मिन् । दिवसकरजन्मनि = दिवसकरात् (सूर्यात् ) जन्म ( उत्पत्तिः ) यस्य, तस्मिन्, हुततारे = हृताः ( दूरीभूताः ) ताराः ( नक्षत्राणि ) येन तस्मिन्, बालातपपक्षेऽयमर्थः । सुग्रीवपक्षे तु-हृता ( अप
अवशेष निद्रासे तिरछी पुतलीवाले नेत्रको खोलने पर, वनचरोंके इधर-उधर संचरण करनेपर, कानोंको आकृष्ट करनेवाले पम्पासरोवरके कलहंसोंके कोलाहलके बढ़नेपर, मयूरोंको नचाने वाले मनोहर हाथियोंके कानके ताडनका शब्द फैलनेपर मञ्जिष्ठा ( मजीठ ) की लालिमाके समान लाल, किरणसमूहके क्रमसे आकाश में उतरते हुए सूर्यरूप हाथीके अधोमुख चंवरके समान दिखाई देनेपर, भगवान् सूर्यके धीरे-धीरे उगनेपर, पम्पासरोवरके प्रान्तस्थित वृक्षोंकी चोटियोंपर संचरण करनेवाले, पर्वतकी चोटीका आश्रय लेनेवाले सूर्यसे उत्पन्न, ( सुग्रीव पक्षमें सूर्यपुत्र,) ताराओं ( सुप्रीव पक्षमें तारा ) का हरण करनेवाले, सूर्यके नव आतपके मानों फिर वानरेश्वर ( सुग्रीव )