________________
कथामुखे-मृगयावर्णनम् दिवसाष्टमभागभाजि स्पष्टभासि भास्वति भृते, प्रयातेपु च यथाभिमतानि दिगन्तराणि शुककलेष, कलाय-निलीननिभत-शक-शावकसनाथे पि नि:शब्दतया शन्य इव तस्मिन वनस्पती, स्वनीडावस्थित एव ताते, मयि च शैशवादसञ्जातबलसमुद्भिद्यमानपक्षपुटे पितुःसमोपत्तिनि कोटरगते, सहसैव तस्मिन् महावने संत्रासितसकलवनचरः सरभसमुत्पतत्पतत्रिपक्ष टशब्दसन्ततः भीत-करिपोत-चीत्कारपीवरः प्रचलितलताकुल-मत्तालिकुलक्कणितमांसल: परिभ्रमदुद्धोणवनवराह-रवघर्घराः गिरिगुहा-सुप्त-प्रबुद्ध-सिंहनादोपबृंहितः, कम्पयन्निव तरून् भगोरथावता-- माणगङ्गाप्रवाहकलकल बहलो भीतवनदेवताणितो मृगयाकोलाहलध्वनिरुदचरत् । हता) तारा ( ताराख्या वालिपत्नी ) येन, तस्मिन् । बालाऽऽतपे = नूतनसूर्यद्योते, कपीश्वरे वानराऽधिपतौ, इव, पुनः = भूयः, वनम् = अरण्यम्, अभिपतति = आक्रामति सति । अत्र पूर्णो पमाऽलङ्कारः । प्रत्यूषसि =प्रातःकाले, स्पष्ट = व्यक्ते, जाते= भते सति ।
नचिरादिवेति । मास्वति = सूर्ये, नचिरादिव = अल्पकालेनेव, दिवसाऽष्टमभागमाजि = दिवसस्य (दिनस्य ) अष्टमभागः ( चतुर्घटिकात्मकांऽश: ) तं भजति ( आश्रयते) इति, तस्मिन् । "भजो ण्विः" इति ण्विप्रत्ययः । अत एव स्पष्ट मासि = स्पष्टा ( व्यक्ता ) भाः ( कान्तिः ) यस्य तस्मिन्, भूते = संवत्ते सति । अत्रोत्प्रेक्षाऽलङ्कारः ।
प्रयातेष्विति । शुककुलेषु = कोरसमूहेष, यथाऽभिमतानि = यथेष्टानि, दिगन्तराणि = आशाविभागान्, प्रयातेषु = गतेषु सत्सु ।।
कुलायेति । कुलायेषु ( नीडेषु, "कुलायो नोडमस्त्रियाम्" इत्यमरः ), निलीनाः ( गुप्ताः ) निभृताः ( निश्चला: ) ये शुकशावकाः ( कीरशिशवः ) तैः सनाथेऽपि ( संयुक्तेऽपि )। निःशब्दतया = नीरवत्वेन, शून्य इव = पक्षिरहित इव, तस्मिन् = पूर्वोक्ते, वनस्पतौ = शाल्मलीवृक्षे । अत्रोत्प्रेक्षाऽ लङ्कारः । ताते= मत्पितरि, स्वनीडाऽवस्थित एव = निजकुलायस्थित एव, शैशवात् = बाल्यात्, असजातेत्यादि: = असञ्जातम् ( अनुत्पन्नम् ) बलं ( शक्तिः, उत्पतनशक्तिरिति भावः ) यस्य सः तथा समुद्भिद्यमानम् ( समुत्पद्यमानम् ) पक्षपुटं ( पतत्त्रपुटम् ) यस्य सः, तस्मिन् । मयि-वैशम्पायने, पितु:=तातस्य, समीपवतिनि = निकटस्थे, कोट रगते = निष्कुहप्राप्ते सति ।।
सहसवेति । सहसा = अकिते, एव, तस्मिन् = पूर्वोक्त, महावने = अरण्यान्यां, "मृगयाकोलाहलध्वनिरुदचरत्" इत्यत्र सम्बन्धः । संत्रासितसकलवनचरः = संत्रासिता: (त्रासं प्रापिताः ) सकलाः ( समस्ताः ) वनचरा: ( अरण्यचारिणः ) येन सः । सरमसेत्यादि: = सरभसं ( सवेगम् ) समुत्पतन्तः ( उड्डीयमानाः ) ये पतत्रिणः ( पक्षिणः ) तेषां पक्षपुटानि ( पतत्रपुटानि ), तेषां शब्दैः ( ध्वनिमिः ) सन्ततः ( विस्तीर्णः ), भोतकरिपोतचीत्कारपीवरः = मीता: ( त्रस्ताः ) ये करिपोताः ( कलमाः ) तेषां चीत्काराः ( भयद्योतकध्वनयः ) । तैः पीवरः ( पुष्टः, समृद्ध इति भावः )।
प्रचलितेति । प्रचलिताः ( कम्पिताः ) या लता: ( वल्ल्यः ), तासु आकुलाः ( व्याकुलाः ) मत्ताः (क्षीबाः ) ये अलयः (भ्रमरा: ) तेषां कुलं (समूहः ) तस्य क्वणितं (गुञ्जनम् ) तेन मांसल: (पुष्ट:)। परिभ्रमदित्यादि: परिभ्रमन्तः ( परितः सञ्चरन्तः ) उद्धोणा: ( उन्नतनासाः ) ये
वनमें प्रवेश कर रहे हैं, ऐसा प्रतीति करानेपर, प्रातःकालके स्पष्ट होनेपर, अल्पकालमें ही सूर्यके दिनके अष्टम भाग(चार घड़ी) को प्राप्त करनेपर उनकी प्रभा स्पष्ट प्रतीत होनेपर, तोतोंके अभीष्ट दिशाओंके भागोंमें जानेपर, घोसलोंमें छिपे हुए निश्चल शुक शिशुओंसे युक्त होनेपरभी निःशब्द होनेसे उस पेड़ (शाल्मली ) के पक्षिरहितके समान प्रतीत होनेपर, मेरे पिताके अपने घोंसलेमेंही रहनेपर, और बचपनसे उड़नेकी शक्तिसे रहित, पर सहसा उगतेहुए पंखोंवाले मेरे, पिताके समीप कोटरमें रहनेपर, उस महावनमें समस्त वनचरोंको संत्रस्त करानेवाला, वेगपूर्वक उड़नेवाले पक्षियोंके पंखोंके शब्दोंसे व्याप्त, डरे हुए हाथियोंके बच्चोंके चीत्कार शब्दसे पुष्ट, कम्पित लतामें