________________
८०
कादम्बरो फलनिकरमुद्वहति धवलितपुलिनमुदन्वति पूर्वेतरे, तुषारबिन्दुषिणि विबुद्धशिखिकुले विज़म्भमाणकेशरिणि करिणी-कदम्बक-प्रबोध्यमान-समदकरिणि क्षपाजलजडकेसरं कुसुमनिकरमुदयगिरिशिखरस्थितं सवितारमिवोद्दिश्य पल्लवाञ्जलिभिः समुत्सृजति कानने, रासभ-रोमधूसरासु वनदेवताप्रासादानां तरूणां शिखरेषु पारावतमालायमानासु धर्मपताकास्विव समुन्मिषन्तीषु तपोवनाग्निहोत्रधूमलेखामु, अवश्यायशीकरिणि लुलितकमलवने रतिखिन्नशक्तिसम्पुटानि ( मुक्तास्फोटसम्पुटानि ) तेभ्यो विकोणम् ( इतस्ततो विक्षिप्तम् )। अरुणकरप्रेरणाऽधोगलितम् = अरुणस्य (सूर्यस्य ) करः ( किरणः ) या प्रेरणा ( नोदनम् ), तया अधोगलितम् (निम्नपतितम् ), उडुगणम् इव - नक्षत्रसमूहम् इव, मुक्ताफलनिकरं - मौक्तिकसमूहम् । धवलितपुलिनं = शुक्लीकृतसकतं यथा तथा उद्वहति = धारयति सति, “यस्य च मावेन भावलक्षणम्" इति सप्तमी । अत्रोडुगणमिवेत्यत्रोत्प्रेक्षाऽलङ्कारः।
तुषारेति । अथ काननं विशेषयति । तुषारबिन्दुवर्षिणि = तुषारस्य ( तुहिनस्य ) ये बिन्दव: (पृषताः ) तद्वर्षिणि ( तदृष्टिकारके ), विबुद्धशिखिकुले = विबुद्धं ( जागरितम् ) शिखिकुलं ( मयूरसमूहः ) यस्मिस्तस्मिन् । विजृम्ममाणकेसरिणि = विज़म्ममाणाः (विशेषजम्मां कुर्वन्तः) केसरिणः (सिंहाः) यस्मिस्तस्मिन् । करिणीत्यादि:- करिणीनां (हस्तिनीनाम् ) कदम्बकं ( समूहः ), तेन प्रबोध्यमाना: ( प्रबोधं प्राप्यमाणाः ) समदा: (दानजलसहिताः ) करिणः (हस्तिनः) यस्मिस्तस्मिन् । तादृशे कानने = वने।
क्षपेति । क्षपाजलजडकेसरं = क्षपायाः ( रजन्याः ) जलेन ( तुषारयुक्तसलिलेन ) जडानि ( शीतलानि ) केसराणि (किजल्काः ) यस्मिस्तम् । "तद्वदर्थाः सुषीमः शिशिरो जडः । तुषारः शीतल: शीतो हिमः सप्ताऽन्यलिङ्गकाः ॥" इत्यमरः । तादृशं कुसुमनिकर = पुष्पसमूहम्, उदयगिरिशिखरस्थितम् = उदयगिरेः ( उदयपर्वतस्य ) शिखरे ( शृङ्गे) स्थितं ( विद्यमानम् ) सवितारं = सूर्यम्, उद्दिश्य इव = उद्देशं कृत्वा इव । पल्लवाऽञ्जलिमिः = पल्लवानि (किसलयानि) एव अञ्जलयः ( हस्तसम्पुटा: ), तैः । समुत्सृजति = समर्पयति सति । अत्रोद्दिश्येवेति क्रियोत्प्रेक्षा, 'पल्लवाञ्जलय' इत्यत्र रूपकं समासोक्तिश्चेत्येतेषामङ्गाङ्गिभावेन सङ्कराऽलङ्कारः ।
रासभेति । रासभरोमघूसरासु = रासभस्य ( गर्दमस्य ) रोमाणि ( लोमानि ) तानि इव धसराः (धूम्रवर्णाः ), तासु । वनदेवताप्रासादानां = वनदेवतानां (काननदेवोनाम् ) प्रासादा: ( ऊर्ध्वमवनस्वरूपाः ), तेषाम् । तरूणां = वृक्षाणां, शिखरेषु = उच्चमागेषु, पारावतमालायमानासु = पारावतानां ( कपोतानाम् ) मालायमानामु ( मालावन् = पङ्क्तिवत् आचरन्तीषु ), तपोवनाग्निहोत्रघमलेखासु-तपोवनेषु ( मुन्यावासेषु ) यानि अग्निहोत्राणि (अग्न्याधानकर्माणि ) तेषां धूमलेखासु (धूमश्रेणीषु ), धर्मपताकासु इव = पुण्यसूचकवैजयन्तीषु इव, समुन्मिषन्तीषु समुत्सर्पन्तीषु । अत्र रासमरोमधसरास्वित्यत्र उपमा, पारावतमालायमानास्वित्यत्र क्यङ्गतोपमा, धर्मपताकास्विवेत्यत्रोत्प्रेक्षा चेत्येतेषामङ्गाङ्गिभावेन सङ्करः ।
अवश्यायेति । अवश्यायसीकरिणि = अवश्यायः (हिमम् ) तत्सीकरिणि, "मातरिश्वनी" त्यस्य विशेषणानि (तदम्बुकणयुक्ते ), "अवश्यायस्तु नीहारस्तुषार" इत्यमरः । लुलितकमलमोतियोंके दानोंको मानों सूर्यको किरणोंसे नीचे गिराये हुए नक्षत्रसमूह धारण कर रहा है ऐसा प्रतीत होता था। वनमें ओसकी बूदोंकी वृष्टि हो रही थी. मोरोंका झुण्ट जाग चुका था, हाथी जमुहाई ले रहे थे, हथिनियोंसे मदवाले हाथी जगाये जा रहे थे। वन रातके जलसे शीतल केसरवाले पुष्पसमूहको उदय पर्वतकी चोटोमें स्थित सूर्यको उद्देश्य कर मानों पल्लवरूप अञ्जलियोंसे अर्पण कर रहा है ऐसा प्रतीत होता था। वनदेवियोंके प्रासादरूप वृक्षोंकी चोटियों में गधेके रोओंकी समान धूसर तपोवनके अग्निहोत्रकी धूमरेखाएँ मानो कबूतरोंकी पतिकी