________________
७९
कथामुखे-प्रभातवर्णनम् विशालतामाशाचक्रवाले गजरुधिर-रक्त-हरिसटा-लोहिनीभिः प्रतप्त-लाक्षिक-तन्तु-पाटलाभिरायामिनीभिः अशिशिरकिरणदीधितिभिः पद्मरागशलाकासम्मार्जनीभिरिव समुत्साय॑माणे गगनकुट्टिमकुसुमप्रकरे तारागणे, सन्ध्यामुपासितुमुत्तगशाऽवलम्बिनि मानससरस्तीरमिवावतरति सप्तर्षिमण्डले, तटगत-विघटित-शुक्ति-सम्पुटविप्रकीर्णमरुणकर-प्रेरणाधोगलितमुडुगणमिव मुक्ताइव = जरत्कलहंस इव । चन्द्रमसि = चन्द्रे, मन्दाकिनीपुलिनात् = आकाशगङ्गासकतात्, अपरजलनिधितटम् = अपरः ( अन्यः पश्चिम इति भावः ) यो जलनिधिः ( समुद्रः ) तस्य, तटम् ( तीरम् ), अवतरति = अवरोहति सति, अत्र वृद्धहंस इवेत्यत्रोपमालङ्कारः ।
परिणतेति । परिणतरङ्करोमपाण्डुनि = परिणतः ( वृद्धः ) यो रङ्कुः ( मृगविशेषः ) तस्य रोम ( लोम ) इत्र पाण्डु ( शुक्लम् ), तस्मिन् । “पाण्डुर्ना नृपतौ सिते'' इति मेदिनी। आशाचक्रवाले = दिङ्मण्डले, "दिशस्तु ककुभ: काष्ठा आशाथ हरितश्च ताः।" इति "चक्रवालं तु मण्डलम्" इति चाऽमरः । विशालतां = विस्तीर्णतां, व्रजति = गच्छति सति, तिमिरापगमेनेति भावः । अत्र लुप्तोपमा ।
__ गजेति । गजरुधिरेत्यादिः = गजरुधिरेण ( हस्तिशोणितेन ) रक्ताः (लोहिताः) या हरिसटाः (सिंहकेसरा. ) ता इव लोहिन्यः ( रक्तवर्णाः ) ताभिः । अत्र रुधिररक्तयोरापाततः पुनरुक्तिप्रतोत्या पुनरुत वदामासः, स यथा साहित्यदर्पणे--
"आपाततो यदर्थस्य पौनरुक्त्येन भासनम् । पुनरुक्तवदामासः स मिन्नकारशब्दगः ॥” इति "हरिसटालोहिनोमिः' इत्यत्रोपमा चेत्यनयोरङ्गाऽङ्गिमावेन सङ्कराऽलङ्कारः । प्रतप्तलाक्षिकतन्तुपाटलामिः = प्रतप्ताः ( सन्तप्ता: ) ये लाक्षिकाः ( जतुविकारोत्पन्नाः ) तन्तवः ( सूत्राणि ) त इव पाटला: ( रक्तवर्णाः ), ताभिः । अत्रोपमाऽलङ्कारः । आयामिनीभिः = विस्तारयुक्तामिः, अशिशिरकिरणदीधितिभिः = अशिशिरा: ( उष्णा: ) किरणाः ( रश्मयः ) यस्य, तस्य सूर्यस्येति भावः, दीधितिभिः (प्रमाभिः)। पद्मरागशलाकासम्माजिनोमिः = पद्मरागत्य (लोहितकमणेः ) शलाकाः ( इषोकाः ), तासां सम्माजिनीभिः ( शोधनीभिः ) इव, "संमार्जनी शोधनो स्यात्" इत्यमरः । अत्रोत्प्रेक्षाऽलङ्कार. । गगनकुट्टिमकुसुमप्रकरे = गगनम् ( आकाशम् ) एव कुट्टिमं ( निबद्धा भूः ), तस्मिन्, यः कुसुमप्रकर: ( पुष्पसमूहः ), तस्मिन् । तारागणे = नक्षत्रसमूहे, समुत्सार्यमाणे = दूरीक्रियमाणे सति । अत्र तारागणे कुसुमप्रकरत्वारोपस्य गगने कुट्टिमत्वारोपो निमित्तमिति परम्परितरूपकम् । "यत्र कस्यचिदारोपो परारोपस्य कारणम् । ततारम्परितम्" इति साहित्यदर्पणः ।
सन्ध्यामिति । उत्तराशावलम्बिनि = उत्तराशाम् (उदीचीम् ) अवलम्बते (आश्रयते) तच्छीलं तस्मिन्, सप्तर्षिमण्डले = मरीच्यादितारकासमूहे, सप्तर्षयो यथा--
"मरीचिरङ्गिरा अत्रि: पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्चेति सप्तते ज्ञेयाचित्रशिखण्डिनः ॥” इति । सन्ध्यां प्रातः सन्ध्याम्, उपासितुम् = अभिवन्दितुम्, इव, मानससरस्तीरं = मानससरोवरतटम्, अवतरति = अवरोहति सति ।
तटगतेति । पूर्वेतरे = पूर्व इतरो यस्मात्तस्मिन्, पश्रिम इति भावः । बहुव्रीहित्वान्न सर्वनामता । उदन्वति = समुद्रे, तटगतेत्यादिः = तटगतानि ( तीरस्थितानि ) विघट्टितानि ( स्फुटितानि) यानि
लोमके समान दिशासमूहके विशालताको प्राप्त करनेपर, हाथीके रुधिरसे लाल सिंहके केसरकी समान लाल
और तपाये गये लाखके तन्तुओंके समान गुलाबी लम्बी सूर्य-किरणोंसे मानों पद्मराग रत्नकी सलाइयोंकी झाड़ से आकाशरूप फर्शके पुष्पसमूहके समान नक्षत्रगणोंके दूर किये जानेपर सन्ध्यावन्दनके लिए उत्तर दिशामें लटके हुए सप्तर्षि मण्डलके मानससरोवरमें उतरने पर पश्चिम समुद्र के किनारेपर स्थित फूटी हुई सीपियोंसे बिखरे गये