________________
कादम्बरी
तस्याश्च दण्डकारण्यान्तःपाति सकलभवनविख्यातम् उत्पत्तिक्षेत्रमिव भगवतो धर्मस्य, सरपति-प्रार्थना-पीत-सकल-सागर-सलिलस्य मेरु-म-सराद गगनतल-प्रसारित-शिरःसहस्रण दिवसकर-रथागमन-पथमपने तुमभ्युद्यतेन अवगणितसकलसुर-वचसा विन्ध्यगिरिणाप्यनुल्लङ्घिताज्ञस्य जठरानल-जीर्ण-वातापिदानवस्य सुरासुर-मुकुट-मकरपत्त्र-कोटि-चुम्बितचरण-रजसो सञ्चयः ( समूहः ) यस्यां सा। तथाऽपि सप्तपर्णोपशोभिता = सप्तभि: पणः ( पत्त्रः ) उपशोभिता, अत्र विरोधः, तत्परिहारः-सप्तपर्णै: ( विषमच्छदैर्वृक्षः ) उपशोभिता ( शोभोपसम्पन्ना )। "सप्तपर्णी विशालत्वक शारदो विषमच्छदः ।" इत्यमरः । क्रूरसत्त्वा = क्रूरा ( घातुकाः ) सत्त्वाः ( जन्तवः, व्याघ्रादय इति भावः ) यस्यां सा, तथाऽपि मुनिजनसेविता "सत्त्वमस्त्री तु जन्तुषु ।" इत्यमरः । मनिजनसेविता = मुनिजनैः ( वशिष्ठादिवाचंयमजनैः ) सेविता (आश्रिता )। त्रापि विरोधाभासः । पुष्पवती = आर्तववती, तथाऽपि पवित्रा = प्रयता, अत्राऽपि विरोधः । परिहारस्तु-पुष्पवती पूष्पाणि ( कुसुमानि ) सन्ति यस्यां सा, मतुप् प्रत्ययः, स्त्रीत्वविवक्षायाम् "उगित"ति डीप् । "पष्पं विकासिकूसमस्त्रीरजःसु नपुंसकम्" । इति मेदिनी । “अथ रजस्वला । स्त्री धर्मिण्यविरात्रेयी मलिनी पूष्पवत्वपि ।" इत्यमरः । तादृशी विन्ध्याऽटवी = विन्ध्यपर्वतवनम् । नामेति प्रसिद्धौ । अस्ति = विद्यते ।
तस्यां विन्ध्याऽटव्याम् । दण्डकाऽरण्याऽन्तःपाति =दण्डकाऽरण्यस्य ( दण्डकवनस्य ) अन्त:पाति ( अभ्यन्तरवति )। "आश्रमपदम्" इत्यस्य विशेषणम् । एवं परत्राऽपि । सूर्यवंशोत्पन्न: कश्चिद्दण्डको नाम राजा शुक्राचार्यपुत्रीमरजां नाम प्रसभमुपभुक्तवान् । तत: कुपित: शुक्रस्तमशपत्अचिरात्तव निधनं भवेत्, सप्ताहाभ्यन्तरे तव राज्यं चाऽरण्यभावं प्राप्नुया"दिति कथा वाल्मीकिरामायणस्था। सकलभुवनविख्यातं = सकलानि ( समस्तानि ) यानि भुवनानि ( लोकाः ), तेषु विख्यातम ( प्रसिद्धम् )। भगवतः ऐश्वर्यादिसम्पन्नस्य, धर्मस्य = सुकृतस्य, उत्पत्तिक्षेत्र-जन्मस्थानम् इव। सरपतीति० =सुरपति: ( इन्द्रः ) तस्य प्रार्थनया ( याचनया) पीतं (धयितम् ) सकलं ( समस्तम् ) सागरजलं (समुद्रसलिलम्) येन, तस्य, "अगस्त्यस्य" इत्यस्य विशेषणम्, एवं परत्राऽपि । समुद्र जलाऽभ्यन्तरवर्तिनां कालेयनामकानामसुराणां संहाराऽथं देवेन्द्रप्रार्थनया महर्षिरगस्त्यः समुद्रजलं पपाविति महाभारतस्था कथाऽत्राऽनुसन्धेया। मेरुमत्सरात् = मेरोः ( हेमाद्रेः ) मत्सरात् ( उन्नतिरूपशुभद्वेषान् ), "मत्सरोऽन्यशुभद्वेष" इत्यमरः । गगनतलेत्यादिः = गगनतले ( आकाशतले ) प्रसारितं ( विस्तारितम् ) विकटं (विकृतम् ) शिरःसहस्रं (शिखरसहस्रम् ) येन, तेन । दिवसकरेत्यादिः = दिवसकरस्य ( सूर्यस्य ) रथस्य ( स्यन्दनस्य ) या गति: ( गमनम् ) तस्याः पन्थाः ( मार्गः ), तम् । 'ऋक्पुरब्धू:पथामानक्षे" इति सूत्रेण समासाऽन्तः अप्रत्ययः । अच्प्रत्यय इति लिखन्तष्टीकाकारा भ्रान्ता: । तं च गमनपथम्, अपनेतुं = निवारयितुं, निरोऽमिति भावः । अभ्युद्यतेन -- प्रवृत्तेन । अत एव अवगणितसकलसुरवचसा = अवगणितानि ( अनादृतानि ) सकलानां ( समस्तानाम् ) सुराणां ( देवानाम् ) वचांसि ( वचनानि ) येन, तेन । तादृशेन विन्ध्यगिरिणा = दक्षिण ( विन्ध्य ) पर्वतेन = अपि, अनुल्लविताऽऽज्ञस्य = अनुल्लविता ( अनतिक्रान्ता) आज्ञा
शोभित हो रही है। क्रूर जन्तुओंसे युक्त होकर भी जो मुनिजनोंसे सेवित है। पुष्पवती ( फूलोंवाली ) वा स्त्रीरजसे युक्त होकर भी पवित्र, विन्ध्यपर्वतकी अटवी (वन) है।
उस ( विन्ध्याऽटवी ) में दण्डकारण्यका अन्तर्गत, सब लोकोंमें प्रसिद्ध, भगवान् धर्मके उत्पत्तिस्थानके समान, इन्द्रका प्रार्थनासे समुद्र के सम्पूर्ण जलको पीनेवाले, सुमेरुकी ईासे आकाशतलमें विकृत हजारों चोटियोंको फैलानेवाले सूर्यके रथके गमनमार्गको रोकनेके लिए तत्पर अत एव समस्त देवताओंके वचनको निरस्कार करनेवाले विन्ध्य पर्वतने भी जिनकी आज्ञाका उल्लङ्घन नहीं किया था, उदराऽग्निसे वातापि नामके दानवको