________________
कथामुखे - विन्ध्याटवीवर्णनम्
पताकेव वानराक्रान्ता, क्वचिदवनिपति हारभूमिरिव वेत्रलताशतदुष्प्रवेशा, कचिद्विराटनगरीव कीचकशताकुला, कचिदम्बरश्रीरिव व्याधानुगम्यमान तरल-तारक-मृगा, क्वचिद्गृहीतव्रतेव दर्भ-चीर-जटा-बल्कल-धारिणी, अपरिमित बहलपत्रसञ्चयाऽपि सप्तपर्णभूषिता, क्रूरसत्त्वाऽपि मुनिजन सेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम |
६१
शरः ।" इत्यमरः । क्वचित्, अमरपतितनुः = अमराणां ( देवानाम् ) पति: ( स्वामी, इन्द्र इति भावः), तस्य तनुः ( शरीरम् ) इव, नेत्रसहस्रसंकुला = नेत्रसहस्रेण ( नयनसहस्रेण ) संकुला (व्याप्ता) | “आखण्डलः सहस्राक्ष” इति प्रसिद्धिः । विन्ध्याऽटवीप – नेत्राणां ( जटानां तरुमुलानामिति भावः ) सहस्रेण सङ्कला । ‘नेत्रं मथिगुणे, वस्त्रभेदे, मुले द्रुमस्य च ।" इति मेदिनी । क्वचित् नारायणमूर्तिः ( विष्णुशरीरम् ) इव, तमालनीला = तमाल: ( तापिच्छ: ) इव नीला ( कृष्णवर्णा ) । विन्ध्याटवीपक्षे - तमालै: ( तापिच्छे : ) नीला ।
क्वचित्, पार्थरथपताका = पार्थ: ( अर्जुनः), तस्य रथ ( स्यन्दन: ) । तस्य पताका ( वैजयन्ती ) इव, वानराक्रात्ता = वानरेण ( कपिना हनूमता इति भावः ) आक्रान्ता ( अधिष्ठिता ), अर्जुनरथः कपिध्वज इति महाभारतप्रसिद्धिः, विन्ध्याऽटवीपक्षे = वानरै: ( कपिभिः ) आक्रान्ता ( कृताक्रमणा ) । क्वचित् अवनिपतिद्वारभूमिः = अवनिपतिः राजा, तस्य द्वारभूमि: ( प्रतीहारभू: ) इव वेत्रलताशतदुष्प्रवेशा = वेत्रलता: ( वेतसवृक्षयष्टयः ), तासां शतम् ( बाहुल्यम् ), तेन दुष्प्रवेशा ( दुःखेन प्रवेष्टुं शक्या, खल् प्रत्यय: ) । विन्ध्याऽटवीपक्षे - वेत्राः ( वेतसवृक्षाः ), लता: ( वल्ल्य: ), तासां शतं ( बाहुल्यम् ) तेन दुष्प्रवेशा । क्वचित् विराटनगरी = विराटस्य ( मत्स्यराजस्य ) नगरी (पुरी) इव कीचकशताऽऽकुला = कीचकस्य ( विराटश्यालकस्य ) शतै: ( बहुसंख्यकैः जनैः ) आकुला ( व्याप्ता ), विन्ध्याऽटवीपक्षे - कीचकानां ( वंशविशेषाणां, छिद्रेषु वायुप्रवेशेन शब्दायमानानां वंशविशेषाणामिति भावः ) शतेन ( बाहुल्येन ) आकुला ( व्याप्ता ) । " कीचका वेणवस्ते स्युर्ये स्वनन्त्य - निलोद्धताः ।" इत्यमरः । क्वचित् अम्बरश्रीः = आकाशलक्ष्मीः इव । व्याधाऽनुगम्यमान ०= - व्याधेन ( लुब्धकरूपधारिणा हरेण ) अनुगम्यमानम् (अनुत्रियमाणम्) अत एव भयेन (भीत्या) तरलं (चश्ञ्चलम् ) तारकमृगं (मृगशिरोनक्षत्रम् ) यस्यां सा । पुरा ब्रह्मा स्वकन्यां सुन्दरीं सन्ध्यां विलोक्य मदनातुरस्तामनुससार । सा च मृगीरूपेण शिवं शरणं जगाम ब्रह्माऽपि मृगरूपेण तामनुससार । ततः शिवः ब्रह्मणः शिरश्छेदाय शरं प्रचिक्षेप । भीतो ब्रह्मा मृगशिरोनक्षत्रमधिष्ठित इति शिवपुराणे कथा विद्यते । विन्ध्याटवीपक्षे - व्याधः ( लुब्धकैः ) अनुगम्यमानाः, अतएव भयेन तरलतारका: ( चञ्चलकनीनिका: ) मृगा: ( हरिणाः ) यस्यां सा । क्वचित् गृहीतव्रता = गृहीतम् ( आत्तम् ) व्रतं ( नियमः ) यया सा । अत एव दर्भचीरेत्यादिः = दर्भा: ( कुशा ) चीराणि वृक्षत्वचः ) जटाः शिफा ) वल्कलानि
( वल्कानि ) तानि धारयतीति दर्भ०धारिणी । उभयत्राऽर्थाः समानाः ।
अपरिमित ० = अपरिमितः ( असंख्यातः ) बहलानाम् ( अत्यधिकानाम् ) पत्त्राणां ( पर्णानाम् ) नाई वह सहस्रों नेत्रों ( जटाओं ) से व्याप्त है । कहींपर तमाल-सी नीलवर्णवाली नारायणमूतिकी सदृश वह तमाल ( तापिच्छ ) वृक्षांसे नीलवर्णवाली है । कहींवर वानर - ( हनूमान् ) की मूर्तिसे युक्त अर्जुनकी रथपताकाकी समान वह वानरोंसे आक्रान्त है । कहींपर सैकड़ों वेतकी हड़ियोंसे दुःखसे प्रवेशयोग्य राजाकी द्वारभूमिकी सदृश वह सैकड़ों बेतकी लताओंसे दुष्प्रवेश्य है । कहींपर कीचक ( विराट के साले) के सैकड़ों पुरुषोंसे व्याप्त विराट राजाकी नगरीकी समान वह सैकड़ों कीचकों (वंशविशेषों) से व्याप्त है । कहींपर व्याधरूपधर पीछा किया गया और चञ्चल तारकमृग (मृगशिरा नक्षत्र ) से युक्त आकाशलक्ष्मीकी सदृश वह व्याधसे पीछा किये गये चञ्चल नेत्रोंकी पुतलियोंवाले मृगोंसे युक्त है । कहींपर व्रत लेनेवाली स्त्रीको समान वह कुश, चीर, जटा और वल्कलको धारण कर रही हैं । असंख्य और अत्यधिक पत्त्रसमूहोंसे युक्त होकर भी वह सप्तपर्णी ( सप्तपर्ण, छतिवन वृक्षों) से