________________
कादम्बरी
तया दीर्घतामुपगतेनालोकशब्देन, राज्ञाञ्च ससम्भ्रमावर्जित-मौलिलोल-चूडामणीनां प्रणमताममल-मणिशलाकादन्तुराभिः किरीट-कोटिभिरुल्लिख्यमानस्य मणिकुट्टिमस्य निःस्वनेन, प्रणामपर्यस्तानामतिकठिनमणिकुट्टिमनिपतितरणरणायितानाञ्च मणिकर्णपूराणां निनादेन, मङ्गलपाठकानाञ्च पुरोयायिनां जय जीवेति मधुरवचनानुयातेन पठतां दिगन्तव्यापिना कलकलेन, प्रचलित-जनचरणशतसंक्षोभा-द्विहाय कुसुमप्रकरमुत्पतताञ्च, मधुलिहां हुङ्क्तेन, संक्षोभादतित्वरितपदप्रवृत्तैरवनिपतिभिः केयूरकोटिताडितानां कणित-मुखर-रत्नदाम्नाञ्च मणिस्तम्भानां रणितेन सर्वतः क्षुभितमिव तदास्थानभवनमभवत् ।
__ अथ विसर्जितराजलोको 'विश्रम्यता' मिति स्वयमेवाभिधाय तां चाण्डाल-कन्यकाम्, 'वैशम्पायनः प्रवेश्यतामभ्यन्तरम्' इति ताम्बूलकरङ्कवाहिनीमादिश्य कतिपयाप्तराजपुत्रपरिवृतो नरपतिरभ्यन्तरं प्राविशत् ।।
राज्ञां चेति । ससंभ्रम = सत्वरम्, आवजितमौलिलोलचूणामणोनाम् = आवजिताः (प्रणामार्थमवनमिता: ये मौलयः ( किरीटानि ) तेषु लोला: ( चञ्चला: ) चूडामणयः ( शिरोरत्नानि ) येषां तेषाम् । “मौलि: किरीटे धम्मिल्ले चूडायामनपुंसकम् ।" इति मेदिनी। प्रणमतां= प्रणामं कुर्वतां, राज्ञां = भूपानाम्, अमलमणिशलाकादन्तुराभिः- अमला ( निर्मलाः ) या मणिशलाकाः ( रत्नेषोकाः ) ताभि: दन्तुराभिः (विषमाभि:) । किरीटकोटिभिः = मुकुटाऽग्रदेशः, उल्लिख्यमानस्य =विदार्यमाणस्य, मणिकुट्टिमस्य = रत्नबद्धभुवः, नि:स्वनेन = ध्वनिना।
प्रणामेति । प्रणामपर्यस्तानां = प्रणामेन ( नमस्कारेण ) पर्यस्तानाम् ( पतितानाम् ), अतिकठिनेत्यादि: = अतिकठिनः ( अतिशयकठोरः ) यो मणिकुट्टिमः ( रत्नमयनिबद्धभूमिः ) तस्मिन् निपतितेन (निपातेन ) रणरणायितानां ( कृतरणरणशब्दानाम् ). तादृशानां, मणिकर्णपुराणां रत्नखचितकर्णभूषणानां, निनादेन = शब्देन । पुरोयायिनाम् = अग्रगामिनां, जयजीवेति मधुरवचनाऽनुयातेन = जयजीवेति मनोहरवचोऽनुसृतेन, पठतां = पाठं कुर्वतां, मङ्गलपाठकानां= बन्दिनां, दिगन्तव्यापिना = दिशाऽन्तव्यापकेन, कलकलेन = कोलाहलेन, प्रचलितेति । प्रचलितेत्यादिः प्रचलिताः ( गन्तुं प्रवृत्ताः ) ये जनाः (मानवाः ), तेषां चरणशतानि (पादशतानि ) तेषां संक्षोभ: ( संचलनम् ) तस्मात् । कुसुमप्रकरं = पुष्पसमूह, विहाय = त्यक्त्वा, उत्पतताम् = उड्डीयमानानां, मधुलिहां = भ्रमराणां, हङ्कृतेन = हुङ्कारशब्देन । संक्षोभात् = संचलनात्, अतित्वरितपदप्रवृत्तः = अतिशीघ्रचरणन्यासप्रवर्तमानः, अवनिपतिभिः = भूपाल:, केयूरकोटिताडितानां = केयूराणाम् ( अङ्गदानाम् ) कोटयः ( अग्रभागा: ), ताभिः, ताडितानाम् ( आहतानाम् ), क्वणितमुखररत्नदाम्नां क्वणितेन ( शब्दितेन ) मुखराणि ( शब्दायमानानि ) रत्नदामानि ( मणिमाल्यानि) येषु, तेषाम् । तादृशानां मणिस्तम्भानां%D रत्नस्थणानां, रणितेन = शब्देन, तत् = पूर्वोक्तम्, आस्थानभवनं = सभामण्डपं, सर्वतः = परितः, क्षुभितम् इव =क्षुब्धम् इव अभवत् = अभूत् ।
अथेति । अथ = अनन्तरं, नरपतिः = राजा, विजितराजलोकः = विसर्जिताः (विसृष्टाः ) जय-जयकार शब्दसे जल्दबाजीसे शिर झुकानेसे चञ्चल शिरके रत्नोंसे युक्त प्रणाम करनेवाले राजाओंके निर्मल रत्नशलाकाओंसे विषम मुकुटके अग्रभागोंसे घिसे जाते हुए मणिकुट्टिमके शब्दसे, प्रणाम करनेसे गिरे हुए, अत्यन्त कठोर मणिखचित कुट्टिम (फर्श) पर गिरनेसे "रणरण" शब्द करनेवाले रत्नखचित कर्णाऽलङकारोंके शब्दसे, आगे जानेवाले मङ्गलपाठ करनेवालोंके "जय हो" चिरञ्जीव हों" ऐसे मधुखचनसे अनुसृत दिशाओंके कोनोंको न्याप्त करनेवाले कोलाहलसे, चलनेवाले मनुष्योंके सैकड़ोंके सञ्चलनसे फूलोंके समूहको छोड़कर उड़ते हुए भौरोंके हुकारसे, क्षोभसे अति शीघ्र पादन्यासोंसे युक्त राजाओंके बाजूबन्दके अग्रभागसे ताडित अतएव शब्दसे मुखरित रत्नमालाओंके और रत्नस्तम्भोंके शब्दसे वह सभामण्डप चारों ओर क्षुब्धके समान हुआ।
तब राजाओंको रुखसत कर उस चाण्डालकुमारीको “विश्राम करो" ऐसा स्वयम् कहकर "वैशम्पायनको