________________
४३
कथामुखे-शूद्रकसभाविसर्जनम् कृष्टानाञ्च धवलितास्थानमण्डप-सोपानफलकानां भवनदीर्घिकाकलहंसकानां कोलाहलेन, रशनारसितोत्सुकानाञ्च तारतर-विराविणामुल्लिख्यमान-कांस्य-केङ्कारदीर्पण गृहसारसानां कूजितेन, सरभसप्रचलित-सामन्तशतचरणतलाभिहतस्य चास्थानमण्डपस्य निर्घोषगम्भीरेण कम्पयतेव वसुमती ध्वनिना, प्रतिहारिणाञ्च पुरः ससम्भ्रममुत्सारितजनानां दण्डिनां समारब्धहेलमुच्चरुच्चरतामालोकयतालोकयन्त्विति तारतर-दीर्घेण भवनप्रासाद-कुञ्जेषूच्चरित-प्रतिच्छन्द
मणिनपुराणां = रत्नखचितपादाङ्गदानां, निनादेन = शब्देन, "सर्वतः क्षुभितमिव तदास्थानमभवत्" इत्यत्र सम्बन्धः । एवं परत्राऽपि । वारेति । सञ्चरतः = नच्छतः, वारविलासिनीजनस्य = गणिकालोकस्य, जघनेत्यादिः = जघनस्थलस्य ( कटिपुरोभागस्य ) आस्फालनं (संघटनम् ) तेन रसिता: ( शब्दिता: ) रत्नमालिकाः ( मणिमाल्यानि ) यासु, तासाम् । मणिमेखलानां= रत्नखचितकाञ्चीनां, मनोहारिणा = चित्ताकर्षिणा, झङ्कारेण झमितिशब्देन । नपुरेति । नपुररवाऽऽकृष्टानां = नूपुररवः (पादाऽङ्गदशब्दः ) आकृष्टानां ( जाताकर्षणानाम् ) तथा च । धवलितेत्यादिः = धवलितानि ( श्वेतीकृतानि ) आस्थानमण्डपस्य ( राजसभाभवनस्य ) सोपानफलकानि ( आरोहणमण्डलानि ) यः, तेषां, तादृशानां भवनदीपिकाकलहंसकानां = भवनदीधिका: (प्रासादवाप्यः ) तासां कलहंसकानां ( कादम्बानाम् ), कोलाहलेन = कलकलेन । रसनेति । रशनारमितोत्सुकितानां रशनानां ( मेखलानाम ) रसितैः ( शब्दैः ) उत्सुकितानाम् ( उत्कण्ठितानाम् ), तारतरविराविणां = तारतरम् ( उच्चतरम् ) यथा तथा विरुवन्तीति तच्छीलाः, तेषाम्, उच्चतरशब्दकारिणामित्यर्थः । तादृशानां गृहसारसानां = भवनपुष्कराहपक्षिणाम्, “पुस्कराह्वस्तु सारसः" इत्यमरः । उल्लिख्यमानकांस्यक्रेङ्कारदीर्घण= उल्लिख्यमानं ( घुष्यमाणम् ) यत् कांस्यं ( वाद्यविशेषः) तस्य क्रेङ्कारः ( क्रमिति शब्द: ) स इव दीर्घ (विस्तृतम् ) तेन । तादृशेन कूजितेनरुतेन । “कांस्यं वाद्यान्तरे पानपात्रे स्यात्तजसाऽन्तरे।" इति मेदिनी। सरभसेति । सरमसेत्यादिः =सरभसं ( सवेगम् ) प्रचलिताः (गन्तुमारब्धाः ) ये सामन्ताः ( मण्डलेश्वराः ), तेषां शतं (बहसंख्या ), तस्य चरणतलानि (पादतलानि ),तैः अभिहतस्य (ताडितस्य ), आस्थानमण्डपस्य = राजसभाभवनस्य, निर्घोषगम्भीरेण = अस्फुटशब्दगम्भोरेण, वसुमती = पृथ्वी, कम्पयता = क्षोभयता, ध्वनिना = शब्देन, अत्र लुप्तोपमा, उत्प्रेक्षाचेति द्वयोरङ्गाङ्गिभावेन सङ्कराऽलङ्कारः । प्रतिहारिणां चेति । पुरः = अग्रे, नृपस्येति शेषः । ससम्भ्रम = सत्वरं, समारब्धहेलं = समारब्धा ( उपक्रान्ता ) हेला ( अनादर: ) यस्मिन् कर्मणि, तद्यथा तथा। "हेला स्त्रियामवज्ञायां विलासे वारयोषिताम् ।" इति मेदिनी । उत्सारितजनानाम् उत्सारिताः ( दूरीकृता: ) जनाः ( लोका: ) यः, तेषाम् । दण्डिनां = दण्डधारिणाम् उच्चैः = उच्चस्वरेण, आलोकयत आलोकयत = पश्यत पश्यत, इति = एवम्, उच्चरतां = ब्रुवतां, प्रतीहारिणां = द्वारपालानां, तारतरदीर्घेण= अत्युच्चायतेन, मवनप्रासादकुञ्जषु = भवनानि (गृहाणि) प्रासादा (देवानां राज्ञां च मन्दिराणि ) तेषां कुञ्जेषु ( लतागृहेषु )। उच्चरितप्रतिच्छन्दतया = उच्चरितः ( उद्गतः ) यः प्रतिच्छन्दः प्रतिरूपः शब्दः ( प्रतिध्वनिः इति भावः ) तस्य भावस्तत्ता तया। दीर्घतां= बहुलताम्, उपगतेन = प्राप्तेन, आलोकशब्देन =जयशब्देन ।
संघट्टनसे शब्द करनेवाली रत्नमालासे युक्त मणिखचित मेखलाओंके मनोहर झङ्कारसे और नूपुरकी ध्वनिसे आकृष्ट सभामण्डपकी सीढ़ियोंको सफेद करनेवाले, भवनकी बाबलीके हंसोंके कोलाहलसे, मेखलाकी ध्वनिसे उत्कण्ठित, अत्यन्त ऊँचा शब्द करनेवाले रगड़े गये कांसेके क्रेडकार शब्दके ममान दीर्घ, गृहसारसोंके कूजनसे वेगसे चलनेवाले सैकड़ों सामन्तोंके पादतलसे ताडित सभामण्डपके मेघगजितके समान मानों पृथ्वीको कम्पित करती हुई ध्वनिसे, राजाके सामने जल्दबाजीसे अनादरपूर्वक सामान्य मनुष्योंको हटानेवाले दण्डधारियोंके ऊँचे स्वरसे देखिये देखिये ऐसा कहनेवाले द्वारपालोंके अत्यन्त तीव्र राजभवन और कुओंमें उच्चारणकी प्रतिध्वनिसे दीर्घताको प्राप्त