________________
४
कादम्बरी
कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥ ६ ॥ सुभाषितं हारि विशत्यधो गलान्न दुर्जनस्यार्करिपोरिवामृतम् । तदेव धत्ते हृदयेन सज्जनो हरिर्महारत्नमिवातिनिर्मलम् ॥ ७ ॥
दुःखेन सोढुं शक्यं दुःसहम्, "ईषदुः मुष् कृच्छ्राः कृच्छ्राऽर्थेषु खल्” इससे खलल् प्रत्यय । दुस् + सह + खल् ( उपपद० ) । अत्यन्तं दुःसहम् ( गति ० ) दुर्वचः = दुष्टं वचः ( गति० ) । सदा-सर्वस्मिन् काले, ‘“सर्व’” शब्दसे ‘“सर्वकाऽन्यकियत्तदः काले दा" इस सूत्र से दा प्रत्यय | "सर्वस्य सोऽन्यतरस्यां दि' इससे 'सर्व' के स्थान में वैकल्पिक "स" आदेश । इस पद्य में उपमा अलङ्कार है । वंशस्थ छन्द है ||५|| अन्वयः - कटु क्वणन्तो मलदायकाः खलाः कटु क्वणन्तो बन्धनशृङ्खला इव अलं तुदन्ति । सन्तस्तु मणिनूपुरा इव साधुध्वनिभिः पदे पदे मनो हरन्ति ।। ६ ।।
I
सम्प्रति ग्रन्थकार उपमाप्रदर्शनपूर्वकं पूर्वार्द्धन खलस्योत्तरार्द्धन सज्जनस्य वृत्तं वर्णयति— कट्टिति । कटु = तीक्ष्णं, क्वणन्तः = ब्रुवन्तः, मलदायकाः = मिथ्याकलङ्कारोपकाः, खलाः = = दुर्जनाः, कटु = तीव्रं क्वणन्तः = शब्दायमानाः, मलदायकाः = मालिन्यसंक्रामकाः, स्पर्शोत्तरमिति शेषः । बन्धनशृङ्खला इव = बन्धलोहनिगडा इव । अलम् = अत्यर्थं तुदन्ति = पीडयन्ति । सतां दुर्जनेभ्योऽन्तरं प्रदर्शयति — मनस्त्विति । सन्तस्तु = सज्जनास्तु, मणिनूपुरा इव = रत्नखचितमञ्जीरा इव । साधुध्वनिमिः = उपकारकवचनैः, मणिनूपुरपक्षे – मनोहरक्वणितैः पदे पदे = प्रतिशब्द, मणिनूपुरपक्षे - प्रतिपादन्यासं, मनः = 1 = चित्तं, हरन्ति = आकर्षन्ति ।। ६ ।। टिप्परगी - कटु = क्रि० वि० । क्वणन्तः = क्वण + लट् शतृ ० ) + जस् । मलदायकाः = मलस्य दायकाः ( ष० त० ) । खलाः = : "पिशुनो दुर्जनः खल: " इत्यमरः । बन्धनस्य शृङ्खलाः ( ष० त० ) । अलं = क्रि० वि० । तुदन्ति = "तुद व्यथने" लट् + झिः । सन्तः = अस् + लट् ( शतृ० ) + जस् । साधुध्वनिभिः = साधवश्च ते ध्वनयः तैः ( क० धा० ) । मणिनूपुरा: मणिखचिता नूपुरा:, “शाकपार्थिवादीनां सिद्धय उत्तर पदलोपस्योपसंख्यानम्" इस वार्तिकसे मध्यमपदलोपी समास । हरन्ति = "हृज् हरणे" लट् + झिः । पूर्वाद्ध और उत्तरार्द्धमें उपमाओंकी सृष्टि अलङ्कार है । वंशस्थ छन्द है ।। ६ ।।
=
अन्वयः - सुभाषितं हारि ( अपि ) दुर्जनस्य गलात् अर्केरियो: अमृतम् इव अधो न विशति । तत् एव सज्जनो हरिः अतिनिर्मलं महारत्नम् इव हृदयेन धत्तं ।। ७ ।।
सुभाषितमिति । सुभाषितं = मनोहरवचनं, काव्यादिकमिति भावः, हारि = आकर्षकम् अपि, दुर्जनस्य : = खलस्य, गलात् = कण्ठात्, अर्केरिपोः = सूर्यशत्रोः, राहोरिति भावः अमृतम् इव = पीयूषम् इव । अधः = अधोभागे, न विशति = न प्रविशति, दुर्जनपक्षे सहृदयत्वाऽभावादर्केरिपुपक्षे उदराऽभावादिति भावः । तत् एव = सुभाषितम एव, सज्जनः = साधुजनः, गुणग्राहक इति भावः । हरिः भगवान् विष्णुः, अतिनिर्मलम् = अतिशयस्वच्छं, महारत्नम् इव = कौस्तुभमणिम् इव, हृदयेन = सज्जनपक्षे - मनसा, हरिपक्षे - वक्षःस्थलेन, धत्ते = दधाति ॥ ७ ॥
=
टिप्पणी- सुभाषितं = शोभनं भाषितम् (गति ० ) । हारि = हरतीति तच्छीलं, हुन् + णिनिः +
कड़वा वचन बोलते हुए, मिथ्याकलङ्कका आरोप करते हुए दुर्जन लोग । तीक्ष्ण ध्वनि करती हुई, छूनेपर जंगका मैल लगा देनेवाली बन्धनकी बेड़ीके समान अत्यन्त पीडित करते हैं। जैसे मणिखचित नूपुर, मनोहर, ध्वनियोंसे पग-पग पर चित्तको आकृष्ट करते हैं उसी तरह सज्जन लोग तो उपकारक वचनोंसे प्रत्येक शब्दमें मनको आकृष्ट कर लेते हैं ॥ ६ ॥
सुन्दर वचन ( काव्य आदि ), मनोहर होता हुआ भी दुर्जनके गलेस राहुके गलेसे अमृतके समान नीचे