________________
११६
कादम्बरो असंयतोऽपि मोक्षार्थी, सामप्रयोगपरोऽपि सततावलम्बितदण्डः, सुप्तोऽपि प्रबुद्धः, सन्निहितनेत्रद्वयोऽपि परित्यक्तवामलोचनस्तदेव कमलसरः सिस्नासुरुपागमत् । ( प्रमवः ) येन सः, हारीतपक्षे-दृष्टो गङ्गाया अवतार: ( घट्टः ) येन सः । “घट्टस्तीर्थाऽवतार" इति कोषः । भ्रमरः = मधुकरः, इव, असकृत् = वारं वारम्, अनुभूतपुष्करवनवासः= अनुभूतः ( अनुभवविषयीकृतः) पुष्करवने ( कमलवने ) वासः (निवासः ) येन सः । हारीतपक्षे अनुभूतः पुष्करवने (पुष्करतीर्थजले अथवा पुष्करतीर्थतपोवने) वासो येन मः। “पयः कीलालममृतं जोवनं भुवनं वनम् ।" इत्यमरः । पुष्कररतीर्थमाहात्म्यं यथा महाभारते-"यथा सुराणां सर्वेषामादिस्तु मधुसूदनः । तथव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥” इति । सर्वत्र पूर्णोपमाऽलङ्कारः । वनचरोऽपि - अरण्यचारी अपि, वने चरतीति "चरेष्ट" इति टप्रत्ययः । कृतमहालयप्रवेशः = कृतः (विहितः ) महालयेषु (विशालभवनेषु ) प्रवेशो येन स इति विरोधस्तत्परिहारस्तु-कृतो महालये (परमात्मनि) प्रवेश: (स्वस्वरूपनिवेशः ) येन सः। "महालयो विहारे स्यात् तीर्थं च परमात्मनि ।" इति मेदिनी। असंयतोऽपि = संयमरहितोऽपि, “त्रयमेकत्र संयमः" ( योगसूत्रम् ३-४) इत्यतो धारणा-ध्यान-समाधोनामेकत्र स्थितौ “संयम" इत्युच्यते । तेषां लक्षणानि च-"देशबन्धश्चित्तस्य धारणा" ( ३-१), "तत्र प्रत्ययकतानता ध्यानम्" ( ३-२), "तदेवाऽर्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" ( ३-३ ) मोक्षार्थी = मुक्त्यर्थी । अत्र च तादृशसंयमाऽमावे कथं मोक्षार्थित्वमिति विरोधस्तत्परिहारस्तु-असंयतोऽपि = अबद्धोऽपि' वासनापार्शरिति शेषः । मोक्षार्थी = अपवर्गाऽभिलाषी, वासनापाशेरबद्धः श्रवणाऽदिपरायणत्वेन मुक्त्यभिलाषुक इति भावः । सामप्रयोगपरः = साम ( सान्त्वम् ) तस्य प्रयोगः ( अनुष्ठानम् ) तस्मिन् परः ( उद्युक्तः ) अपि, सतताऽवलम्बितदण्डः = सततम् ( निरन्तरं यथा तथा ) अवलम्बितः (आश्रितः ) दण्डः ( दमः = उपायेषु चतुर्थः ) येन सः, अत्र सामदण्डावुपायो मिथोविरुद्धावतस्तयोः कथमेकत्राऽवस्थितिरिति विरोधस्तत्परिहारस्तु सामप्रयोगपर: सामवेदाऽनुष्ठानपरः, सतताऽवलम्बितदण्डः = सततं यथा तथा अवलम्बित: ( गृहीतः ) दण्ड: ( पालाशलगुडः ) येन सः । सुप्तोऽपि = निद्राणोऽपि, प्रबुद्धः= जागरितः, अत्र विरोधः, परिहारस्तु सुप्तः, प्रबुद्धः=प्रकृष्टज्ञानसम्पन्नः । भानुचन्द्रस्तु-सूप्तः= शोभना ता ( जटा ) यस्य सः । "प्ता जटायां च राक्षस्याम्" इति हैमः । सन्निहितनेत्रद्वयः = सन्निहितं ( संस्थापितम् ) नेत्रद्वयं ( लोचनद्वितयम् ) यस्य सः, तादृशोऽपि, परित्यक्तवामलोचन:=परित्यक्तं (परिवजितम् ) वाम ( दक्षिणेतरत् ) लोचनं ( नेत्रम् ) येन सः । अत्र विरोधस्तत्परिहारस्तु–परित्यक्ता वामलोचना ( कामिनी) येन सः, “विशेषास्त्वङ्गना भीरु: कामिनी वामलोचना।" इत्यमरः । अत्र सामान्यपदे प्रयोक्तव्ये विशेषपदोपादानात्सामान्यपरिवृत्तिर्दोषः, परं विरोधाभासे दोषाङ्कशत्वेन दोषाऽभावः । एवमुपवणितो हारीतो नाम मुनिकुमारकः, तदेव = पूर्वोक्तमेव कमलसरः = पद्मप्रचुरकासारं, पम्पासर इति भावः । सिस्नासुः स्नातुमिच्छुः सन्, सन्नन्तात् "ष्णा शौचे" इति धातोरुप्रत्ययः उपागमत् = समीपं गतः । वनचर होकर भी महान् आलयमें प्रवेश किये हुए (विरोध )। विरोधपरिहार-महालय (परमात्मा ) में स्वस्वरूपका निवेश करनेवाले, संयम ( धारणा, ध्यान और समाधि ) के न रहने पर भी मोक्षकी इच्छा करनेवाले (विरोध) वि०प०-वासनाके पाशसे बद्ध न होकर मोक्षकी इच्छा रखनेवाले। साम ( मेल ) के प्रयोगमें तत्पर होकर भी निरन्तर दण्ड (विग्रह ) का अवलम्बन करनेवाले (विरोध )। वि० प०-साम (सामवेद ) के प्रयोग ( अनुष्ठान ) में तत्पर और निरन्तर पलाशके दण्डका अवलम्बन करनेवाले सुप्त ( सोते हुए ) भी प्रबुद्ध (जागरित), (विरोध)। वि०प०-प्रबुद्ध (प्रकृष्ट शानसे सम्पन्न ) अथवा सुप्त ( सुन्दर ता = जटासे युक्त)। दोनों नेत्रोंके निकटस्थित होनेपर भी बाएँ नेत्रका परित्याग करनेवाले (विरोध), वि०प०-वामलोचना (कामिनी) का परित्याग करनेवाले। ऐसे मुनिकुमार हारीत उसी कमलके तालाबमें स्नानकी इच्छा करते हुए बाये।