________________
कथामुखे-हारीतवर्णनम् सन्ध्या-पिङ्गलतारकः प्रभातकाल इव बालातप-कपिलः, रविरथ इव दृढनियमिताक्षचक्र:, सुराजेव निगूढ-मन्त्रसाधन-क्षपित-विग्रहः, जलधिरिव कराल-शङ्खमण्डलावर्त्त-गतः, भगीरथ इव दृष्ट-गङ्गावतारः, भ्रमर इवासकृदनुभूतपुष्कर-वनवासः, वनचरोऽपि कृतमहालयप्रवेशः, स्त्रीलिङ्गभ्रान्त्या क्षपिता बहो" इति लिखन्तः बहवष्टीकाकारा भ्रान्ताः । हारीतपक्षे-क्षपिता बहवो दोषाः ( रागादयः ) येन सः । जलधरसमय:=प्रावृट् कालः, इव, प्रशमितरजःप्रसरः =प्रशमितः (प्रशमं प्रापित: ) रजसां धूलीनाम् ) प्रसरः ( प्रसरणम् ) येन सः । हारीतपक्षे-प्रशमितः रजसः ( रजोगुणस्य ) प्रसरः ( व्यापारः ) येन सः । "रजो रेणौ परागे स्यादातवे च गुणान्तरे।" इति मेदिनी । वरुणः = प्रचेताः, इव, "प्रचेता वरुणः पाशी यादसां पतिरप्पतिः।" इत्यमरः, कृतोदवासःकृतः (विहितः ) उदके ( जले ) वासः ( निवासः ) येन सः, "पेषं वासवाहनधिषु च" इति उदकस्योदादेशः । हारीतपक्षे-उदवासो व्रतविशेषः । हरिः= कृष्णः, इव, अपनीतनरकमयः= अपनीतं (निवारितम् ) नरकात् ( नरकाऽसुरात्, प्राग्ज्योतिषपुराऽधिपतेः ) मयं ( त्रासः ) येन सः । हारीतपक्षे–सत्कर्माऽनुष्ठानेन निवारितनिरयमय इत्यर्थः । प्रदोषारम्म:=प्रदोषस्य ( रजनीमुखस्य ) आरम्भः ( उपक्रमः ) इव, सन्ध्यापिङ्गलतारकः = सन्ध्या ( दिनरात्रिसन्धिकाल: ) सा इव पिङ्गलतारक: = पिङ्गला: (पीतवर्णाः ) तारका: ( नक्षत्राणि ) यस्मिन् सः । हारीतपक्षे—सन्ध्या इव पिङ्गले (पीतवर्णे ) तारके ( कनीनिके ) यस्य सः । इदं महापुरुषलक्षणं, तदुक्तं सामुद्रिकेक्षुद्रोऽपि चक्रवर्ती स्यात् पीततारकचक्षुषि ।" इति । तारकाऽक्ष्णः कनीनिका" इत्यमरः । प्रभातकाल:= प्रभातं ( प्रत्यूषम् ) तस्य काल: ( समयः ), स इव, बालातपकपिल:=बालाऽतपेन (नूतनद्योतेन ) कपिल: ( पीतवर्णः ), "प्रकाशो द्योत आतपः" इत्यमरः । हारीतपक्षे-बालातप इव कपिलः । रविरथः = सूर्यस्यन्दनः, इव, दृढनियमिताऽक्षचक्रः = दृढं (गाढं यथा तथा ) नियमितं ( बद्धम् ) अक्षः ( मध्यदण्ड: ) चक्र ( रथाऽङ्गम् ) यस्य सः। हारीतपक्षे-दृढनियमितं ( गाढनिरुद्धम् ) अक्षाणाम् ( इन्द्रियाणाम् ) चक्रं ( समूहः ) येन सः । सुराजा = उत्तमो नृपः, इव, “न पूजनात्" इति समासाऽन्तटच्प्रत्ययनिषेधः । निगूढेत्यादिः = निगूढः ( अतिगुप्तः ) यो मन्त्रः ( सन्धिविग्रहादिविचारः ) तत्साधनेन ( तदनुष्ठानेन ) क्षपित: (क्षयं प्रापितः ) विग्रहः ( युद्धम् ) येन सः । हारीतपक्षे—निगूढदेवमन्त्रसाधनेन क्षपितः (क्षयं प्रापितः ) विग्रहः ( शरीरम् ) येन सः । “विग्रहः कायविस्तारविमागे ना रणेऽस्त्रियाम् ।" इति मेदिनी।
जलनिधिः = समुद्रः इव, करालशङ्खमण्डलावर्तगतः = करालानि ( दन्तुराणि ) शङ्खमण्डलानि (कम्बुमण्डलानि ) आवर्ता: ( अम्भसां भ्रमाः ) गर्ताः (अवटाः ) यस्मिन् सः, “स्यादावर्तोऽम्भसां भ्रमः" इति "गर्ताऽवटौ भुवि श्वभ्रे" इति चाऽमरः । हारीतपक्षे—करालम् ( उन्नताऽवनतम् ) यत् शङ्खमण्डलम् ( ललाटास्थिमण्डलम् ) आवर्तः ( भ्रमिरेखा ) गतः ( अवट: ) यस्य सः । तादृशावर्तश्च महातपस्विलक्षणम् । “शङ्खो निधौ ललाटाऽस्थ्नि कम्बो न स्त्री" त्यमरः । भगीरथः = सगरप्रपौत्रः, सूर्यवंशोत्पन्नो राजा, इव, दृष्टगङ्गाऽवतारः = दृष्ट: ( अवलोकितः ) गङ्गायाः (विष्णुपद्याः) अवतारः
भयको हटाया था वैसे ही नरकके भयको हटाये हुए, जैसे रात्रिके आरम्भमें सन्ध्या पीली तारकाएँ होती है वैसे ही सन्ध्याको समान पीली तारकाएँ (पुतलियों) वाले, जैसे प्रातःकाल बालसूर्यके प्रकाशसे पीला होता है वैसे ही पीले, सूर्यका रथ जैसे दृढ़तासे बद्ध अक्ष ( रथका अवयव) और चक्रसे युक्त होता है वैसे ही अक्षचक्र(इन्द्रियसमूह ) को दृढ़तासे रोकनेवाले। जैसे उत्तम राजा गुप्त मन्त्र (सन्धि विग्रह आदिके विचार ) से विग्रह(युद्ध ) को क्षीण करता है वैसे गुप्त देवमन्त्रसाधनसे विग्रह ( शरीर ) को क्षीण किये हुए, जैसे समुद्र उन्नत अवनत शङ्खमण्डल, भँवर और गड्ढासे युक्त होता है वैसे ही कराल शव ( ललाटकी अस्थि ) आवर्त और गर्तसे युक्त, जैसे राजा भगीरथने गङ्गाका अवतार (उद्गमस्थान ) देखा था वैसे ही गङ्गाके अवतार (घाट ) को देखे दुए, जैसे भ्रमर वारंवार पुष्कर ( कमल ) के वनमें वासका अनुभव करता है वैसे ही पुष्करतीर्थमें निवास किये हुए,