________________
कथामुखे-हारीतवर्णनम्
११३ लम्बिना कृष्णाजिनेन नीलपाण्डुभासा तपस्तृष्णानिपीतेनान्तनिष्पतता धूम-पटलेनेव परोतमूत्तिः, अभिनव-बिससूत्र-निर्मितेनेव परिलघुतया पवनलोलेन निर्मांस-विरलपार्श्वकपञ्जरमिव गणतया वामांसावलम्बिना यज्ञोपवीतेनोद्भासमानः, देवतार्चनार्थमागृहीत-वनलता-कुसुमपरिपूर्णपर्णपुट-सनाथ-शिखरेणाषाढदण्डेन व्याप्त-सव्येतरपाणिः, विषाणोत्खातामुहहता स्नानमृदमुपजात-परिचयेन नीवारमुष्टि-संवद्धितेन कुश-कुसुम-लतायास्यमान-लोल-दृष्टिना तपोवनमगेणानुगम्यमानः, विटप इव कोमल-वल्कलावृत-शरीरः, गिरिरिव समेखल:,
स्कन्धेति । तपस्तृष्णानिपीतेन = तपसि ( तापसाऽऽचरणे ) या तृष्णा ( वृद्धिलालसा ), तया निपीतेन (पानविषयीकृतेन ), अतः अन्त:शरीराऽभ्यन्तरात् । निष्पतता= निष्क्रामता, धूमपटलेन = धूमसमूहेन, इव, उत्प्रेक्षाऽलङ्कारः। स्कन्धदेशाऽवलम्बिना = स्कन्धदेशम् ( अंसभागम् ) अवलम्बते ( आश्रयते ) तच्छीलं, तेन । नीलपाण्डुमासा= नीला ( कृष्णा) पाण्डुः (पाण्डुरा) माः ( कान्तिः ) यस्य, तेन, तादृशेन—कृष्णाऽजिनेन = कृष्णसारमृगचर्मणा, परोता ( व्याप्ता ) मूर्तिः ( शरीरम् ) यस्य सः।
__ अभिनवेति । अभिनवबिससूत्रनिमितेन-अभिनवानि ( नूतनानि ) यानि बिससूत्राणि ( कमलनालतन्तवः ) तैः निमितेन ( रचितेन ) इव, परिलघुतया = अतिलाघवयुक्तत्वेन, अणत्वेनेति भावः. उत्प्रेक्षा । पवनलोलेन-पवनेन ( वायना ) लोलेन ( चञ्चलेन)। निर्मासेत्यादिःनिर्मासम् ( अधिकमांसरहितम् ) अतएव विरलम् ( असङ्कीर्णम् ) पाश्वंकपञ्जरम् (पाश्र्वाऽस्थिसञ्चयः ), तद् गणयता इव = तत्संख्यां कुर्वता इव, उत्प्रेक्षा। अत्र द्वयोरुत्प्रेक्षयोनिरपेक्षत्वेन स्थितेः संसृष्टिरलङ्कारः । वामांसाऽवलम्बिना=वामांऽसम् ( दक्षिणेतरस्कन्धम् ) अवलम्बते ( आश्रयते) तच्छीलं-तेन । तादृशेन यज्ञोपवीतेन-ब्रह्मसूत्रेण, उद्धासमान:= उद्दीप्यमानः ।
__ देवतेति । देवताऽर्चनाऽयं = देवपूजनाऽर्थम्, आगृहीतेत्यादि: = आगृहीतानि ( समन्तत आत्तानि ) यानि वनलताकुसुमानि ( विपिनवल्लीपुष्पाणि ), तैः परिपूर्ण (परिपूरितम् ) यत् पर्णपुट ( पत्त्रपुटम् ), तेन सनाथं ( यक्तम् ) शिखरम् ( ऊवभागः ), यस्य, तेन, तादृशेन आषाढदण्डेन =पालाशदण्डेन, "पालाशो दण्ड आषाढ" इत्यमरः । व्यापृतसव्येतरपाणि:= व्याप्रतः ( संलग्न: ) सव्येतरः ( दक्षिण: ) पाणि: (हस्तः ) यस्य सः ।
विषाणोत्खातामिति । विषाणेन ( शृङ्गण ) उत्खाताम् ( अवदारिताम् ), स्नानमृदं = मज्जनमृत्तिकाम्, उद्वहताधारयता, उपजातपरिचयेन = उपजातः ( उत्पन्नः ) परिचयः ( संस्तवः ) यस्य, तेन परिचितेनेति भावः । अत एव नीवारमुष्टिसंवद्धितेन = नीवाराणां (मुन्यन्नानाम् ) मुष्टिना ( मुष्टिमितपरिमाणेन ) संवद्धितेन ( संवृद्धि प्रापितेन ), कुशेत्यादिः = कुशानि ( दर्भाः ) कुसुमानि (पुष्पाणि), लताः ( वल्ल्यः ), ताभिः आयास्यमाने (आकृष्यमाणे) अत एव लोले (चञ्चले ) दृष्टी ( नेत्रे ) यस्य तेन । तादृशेन तपोवनमृगेण = तपःकाननहरिणेन, अनुयातः= अनुसृतः ।
विटप इति । विटप:= स्तम्ब: शाखा वा, इव, "विटप: पल्लवे षिड्ने विस्तारे स्तम्बहुए निरन्तर ऊँची ग्रीवावाले स्फटिकमणिके कमण्डलुसे युक्त वाम करतलवाले, मानों तपस्याकी तृष्णासे पीये गये और शरीरके भीतरसे निकलते हुए धूमसमूहके समान कन्धेपर लटके हुए नीली और सफेद कान्तिवाले कृष्णसार मृगके चर्मसे आच्छादित शरीरवाले नये मृणालसूत्रोंसे बने हुए हलका होनेसे वायुसे चञ्चल, मानों अधिक मांस न होनेसे विरल पार्श्वपञ्जर ( पसलियों) को गिनते हुए, बाएँ कन्धेपर लटकनेवाले यज्ञोपवीत (जनेऊ) से शोभित होते हुए, देवपूजाके लिए लिये हुए वनलताओंके पुष्पोंसे परिपूर्ण पत्तोंके दोनोंसे युक्त ऊर्श्वभागवाले पलाशके दण्डसे युक्त दाहिने हाथवाले, सींगसे खोदी गई स्नानकी मिट्टीको लेते हुए परिचयवाले, मुष्टि परिमित नीवारों(मुन्यन्नों) से बढ़ाये गये, कुशों, फूलों और लताओंसे आकृष्ट और चञ्चल दृष्टिवाले तपोवनके मृगसे अनुगत.
८का०