________________
११२
कादम्बरो ससस्थलावलम्बिनीनां जटानां निकरेणोपेतः, स्तम्भितशिखा-कलापः, खाण्डववन-दिधक्षया कृतकपट बटु वेष इव भगवान् पावकः, तपोवनदेवतानूपूरानुकारिणा धर्मशासन-कटकेनेव स्फाटिकेनाक्षवलयेन दक्षिणश्रवणविलम्बिना विराजमानः, सकल-विषयोपभोग-निवृत्यर्थमुपपादितेन ललाटपट्टके त्रिसत्येनेव भस्मत्रिपुण्ड्रकेणालङ्कृतः, गगन-गमनोन्मुखबलाकानुकारिणा स्वर्गमार्गमिव दर्शयता सततमुद्ग्रीवेण स्फटिक-मणि-कमण्डलुनाध्यासित-वामकरतल:, स्कन्धदेशाववर्णाः ), तासाम् । उपमाऽलङ्कारः । अनेकतीर्थाऽभिषकपूतानाम् = अनेकानि (बहनि ) यानि तीर्थानि (गङ्गादिपवित्रस्थानानि ) तेषु अभिषेकेण (स्नानेन ) पूतानाम् (पवित्राणाम् )। अंसस्थलाऽवलम्बिनीनाम् = अंसस्थलम् (स्कन्धस्थानम् ) अवलम्बन्ते (आलम्बन्ते ) तच्छीलाः, तासाम् । ताहशीनां जटानां = सटानां, "वतिनस्तु जटा सटा" इत्यमरः । निकरेण = समूहेन, उपेतः = युक्तः ।
___ स्तम्भितेति । स्तम्मितशिखाकलापः = स्तम्भितः ( बद्धः ) शिखानां ( चूडानाम् ) कलाप: ( समूहः ) येन सः । "शिखा चूडा केशपाशी'त्यमरः । खाण्डववनदिधक्षया = खाण्डववनस्य ( खाण्डवनामककाननस्य ) दिधक्षया ( दाहेच्छया ), दग्धुमिच्छा दिधक्षा । "दह भस्मीकरण" इति धातोः सन्नन्तात् "अ प्रत्ययात्" इति अप्रत्यये, “अजाद्यतष्टाप्" इति टाप् । पुरा श्वेतकिनामधेयस्य राज्ञो द्वादशवाषिके यज्ञे निरन्तराज्यमक्षणादुदररोगपीडितः पावको धृतविप्ररूपः सन् श्रीकृष्णाऽर्जुनसाहाय्येन खाण्डववनं ददाहेति महामारतीया कथा दर्शनीया। कृतकपटबटुवेषः = कृतः ( विहितः ) कपटेन ( छद्मना ) बटुवेषः (ब्राह्मणरूपम् ) येन सः । भगवान् = ऐश्वर्यसम्पन्नः, पावक इव = अग्निरिव, प्रदीप्त इति शेषः । उपमाऽलङ्कारः ।
तपोवनेति । तपोवनदेवतानपुरानुकारिणा=तपोवनस्य (तपश्चरणकाननस्य ) या देवता ( अधिष्ठात्री देवी ) तन्नपुराऽनुकारिणा ( तत्पादाङ्गदाऽनुकरणशीलेन ) धर्मशासनकटकेन = धर्मशासनानि (विधिनिषेधरूपा धर्मोपदेशाः ) तेषां कटकेन (सैन्येन, रक्षकरूपेणेति शेषः ) उपमा उत्प्रेक्षा चाऽनयोरङ्गाङ्गिभावेन सङ्करः । दक्षिणश्रवणविलम्बिना = दक्षिणं (वामे तरत ) च तत श्रवणं ( श्रोत्रम् ) तद्विलम्बिना ( तद्विलम्बनशीलेन ), स्फाटिकेन = स्कटिकमणिनिर्मितेन, अक्षवलयेन = अक्षमालया, विराजमानः = शोभमानः ।
सकलेति । सकलाः ( समस्ताः) ये विषयाः (स्रक्चन्दनादयो भोग्यपदार्थाः ) तेषामुपमोगः (निवेशः, "निर्वेश उपभोगः स्यात्" इत्यमरः ), तस्य निवृत्यर्थम् ( निवारणाऽर्थम् ) उपपादितेन = सम्पादितेन, ललाटपटके = मालफलके । त्रिसत्येन = मनोवाक्कायलक्षणेन सत्येन, इव. उत्प्रेक्षा भस्मत्रिपुण्ड्रकेण - मसितरेखात्रितयेन, अलङ्कृतः= भूषितः । उत्प्रेक्षाऽलङ्कारः।
गगनेति । गगने (आकाशे ) गमनं (यानम् ) तत्र उन्मुखो (उन्नतवदना ) या बलाका (बिसकण्ठिका ) ताम् अनुकरोति ( विडम्बयति ) तच्छीलेन । स्वर्गमार्ग = त्रिदिवपथं, दर्शयता =प्रकाशयता, इव सततं = निरन्तरम्, उद्ग्रीवेण = उन्नतकन्धरेण, स्फटिकमणिकमण्डलुना, स्फटिकरत्नकरकेण । अध्यासितवामकरतल:= अध्यासितम् (आश्रितम् ) वामं (दक्षिणेतरत् ) करतलं (हस्ततलम् ) यस्य सः ।
दिखलाते हुए, सन्तप्त लोहेसे लाल और अनेक तीर्थों में स्नान करनेसे पवित्र, कन्धोंपर लटकनेवाली जटाओंके समूहसे युक्त, ज्वालासमूहको स्तब्धकर मानों खाण्डव वनको जलानेकी इच्छासे कपटसे ब्राह्मणवेषको लेनेवाले। अग्निके समान, तपोवनकी देवीके नूपुरका अनुकरण करनेवाले मानों धर्मशासनकी सेनाके समान दक्षिण कर्णमें लटकनेवाली स्फटिक मणियोंकी अक्षमालासे शोभित होते हुए, मानों समस्त विषयों के उपभोगकी निवृत्ति के लिए सम्पादित ललाट (लिलार ) में मन, वचन और शरीररूप तीन सत्योंके समान भस्मके त्रिपुण्ड्रक (तीन रेखाओं) से अलङ्कृत, आकाशमें जानेके लिए उन्मुख बगलेका अनुकरण करनेवाले मानों स्वर्ग मार्गको दिखलाते