________________
१०२
कादम्बरी एकतमस्तु जरच्छबरस्तस्मात् पुलिन्द-वृन्दादनासादितहरिण-पिशितः-पिशिताशन इव विकृतदर्शनः पिशितार्थी तस्मिन्नेव तरुतले मुहूर्त्तमिव व्यलम्बत । अन्तरिते च तस्मिन् शबरसेनापतौस जीर्णशबरः पिबनिवास्माकमायूंषि रुधिरबिन्दुपाटलया कपिलभ्रलता-परिवेषभीषणया दृष्ट्या गणयन्निव शुककुल-कुलायस्थानानि श्येन इव विहगामिषस्वाद-लालसः सुचिर- ' मारुरुक्षुस्तं वनस्पतिमा मूलादपश्यत् ।
उत्क्रान्तमिव तस्मिन् क्षणे तदालोकन-भीतानां शुककुलानामसुभिः । सिंहिकाया अपत्यं पुमान्, “स्त्रीभ्यो ढक्" इति ढक्, “तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुन्तुदः ।" इत्यमरः । शशिकला इव = चन्द्र कला इव, क्रमेण = सलिलपानानन्तर्येण, अदशत् = अभक्षयत् । उपमाऽलङ्कारः । अपगतश्रमः = अपगतः (निवृत्तः ) श्रमः ( मृगयाजनितखेदः ) यस्य सः । उत्थायउत्थानं कृत्वा । परिपीताऽम्भसा= विहितसलिलपानेन, सकलेन = निखिलेन, तेन = पूर्वकथितेन, शबरसैन्येन = शबरसेनया, अनुगम्यमानः = अनुस्रियमाण: सन्, शनैः शनैः = मन्दं मन्दम्, अभिमतम् - अमीष्ट, दिगन्तरम् = अन्याम् आशाम्, अयासीत् = प्रापत् । "या प्रापण' इति धातोर्लङ "यमरमनमातां सक च" इति सगिटौ।
एकतमस्त्विति । एकतमस्तु = अन्यतमस्तु, जरच्छबर: = वृद्ध शबरः, तस्मात् = पूर्वोक्तात्, पुलिन्दवृन्दात् = शबरसमूहात्, अनासादितहरिणपिशितः = अनासादितम् ( अप्राप्तम् ) हरिणपिशितं (मृगमांसम् ) येन सः, पिशिताऽशनः = मांसभक्षकः, व्याघ्रादिः, राक्षसादिः, इव, विकृतदर्शनः = विकृतं (विकारयुक्तं, भयङ्करमिति भावः ) दर्शनम् ( अवलोकनम् ) यस्य सः, उपमा। पिशिताऽर्थी = मांसाऽर्थी सन् । तस्मिन्नेव-पूर्वोक्त एव, तरुतले = शाल्मलीवृक्षमुले, मुहूतम् इव =कञ्चित्कालम् इव, व्यलम्बत = विलम्बम् अकरोत् ।
अन्तरित इति । शबरसेनापतौ= पुलिन्दसन्यनायके । अन्तरिते च = व्यवहिते च, वृक्षलतादिनेति शेषः । सः= पूर्वोक्तः, जीर्णशबरः = वृद्धपुलिन्दः, अस्माकं = पक्षिणाम्, आयूंषि = जीवनकालान्, पिबन् इव = पानविषयाणि कुर्वन् इव, उत्प्रेक्षालङ्कारः। रुधिरबिन्दुपाटलया = रुधिरबिन्दुरिव ( रक्तपृषत इव ) पाटला (श्वेतरक्ता ) तया। कपिलेत्यादि:० = कपिला ( पिङ्गला) या भ्रूलता (नयनलोमवल्ली ) तस्याः परिवेषः ( परिधिः ) तेन मीषणा ( भयङ्करी ), तया, तादृश्या दृष्टया नयनेन, शुककुलकुलायस्थानानि = शुककुलस्य (कोरसमूहस्य) कुलायस्थानानि ( नीडस्थलानि ), गणयन इव = गणनां कुर्वन् इव, उत्प्रेक्षाऽलङ्कारः । श्येन इव = पत्त्री इव, विहगाऽऽमिषस्वादलालस:विहगानाम् ( पक्षिणाम् ) यत् आमिषं ( मांसम् ) तस्य स्वादः (आस्वादनम् ) तस्मिन् लालसः (अत्यभिलाषुकः ) सन्, उपमा। तं पूर्वोक्तं, वनस्पति = शाल्मलीवृक्षम्, आरुरुक्षुः (आरोदुम् इच्छुः ), आमूलात् = मूलपर्यन्तम् । सुचिरं = बहुकालं यावत्, अपश्यत् = व्यलोकयत् ।
__उत्क्रान्तमिवेति । तस्मिन्, क्षणे = अवसरे, "क्षणः पर्वोत्सवव्यापारेषु मानेऽप्यनेहसः।" इति मेदिनी। तदालोकनभीतानां = तस्य ( जरच्छबरस्य ) यत् आलोकनं ( दर्शनम् ) तस्मात् भीतानाम् ( त्रस्तानाम् ) शुककुलानां = कीरसमूहानाम्, असुमिः = प्राणः, उत्क्रान्तम् इव = निर्गतम् इव, अत्रोत्प्रेक्षाऽलङ्कारः।
उनमें भयानक आकृतिवाला एक वुड्ढा शवर उस शबरसमूहसे मृगमांसको नहीं पानेसे मांसभक्षक(राक्षस आदि ) के समान होकर मांसकी इच्छा करता हुआ उसी पेड़ ( शाल्मली) के नीचे कुछ समय तक ठहरा । शबरसेनापतिके आँखोंसे ओट होनेपर मानों हमारी आयुको पीता हुआ और रक्त बिन्दुके समान लाल और भूरी भ्रलताके परिवेषसे भयङ्कर दृष्टसे शुकसमूहोंके घोंसलोंको गिनता हुआ बाजके समान पक्षीके मांसका भास्वादन करनेके लिए लोलुप होता हुआ उस पेड़पर चढ़नेके लिए इच्छा कर उस पेड़को जड़से देखने लगा।