________________
कथामुखे —— शबरचरितालोचनम्
१०१
•
अन्यतरस्तु शबरयुवा ससम्भ्रममवतीय्यं तस्मात् करयुगल - परिक्षोभिताम्भसः सरसो एक वैदूर्य्यद्रवानुकारि प्रलय - दिवस कर-किरणोपतापादम्बरेकदेशमिव विलीनम् इन्दुमण्डलादिव प्रस्यन्दितम्, द्रुतमिव मुक्ताफल-निकरम्, अत्यच्छतया स्पर्शानुमेयं हिमजडम्, अरविन्दकोश' रजः-कषायमम्भः कमलिनीपत्त्रपुटेन प्रत्यग्रोधृताश्च धौतपङ्कनिर्मला मृणालिकाः समुपाहरत् । आपीत-सलिलश्च सेनापतिस्ता मृणालिकाः शशिकला इव सैहिकेयः क्रमेणादशत् । अपगतश्रमश्चोत्थाय परिपीताम्भसा सकलेन तेन शबर - सैन्येनानुगम्यमानः शनैः शनैरभिमतं दिगन्तरमयासीत् ।
निम्नभागे, छायायाम् = अनातपप्रदेशे, आगत्य - आगमनं कृत्वा अवतारितकोदण्डः = अवतारितम् ( अवरोपितं, स्वस्कन्धादिति शेष: ) कोदण्डं ( धनुः ) येन सः । " धनुश्चापो धन्वशरासनकोदण्डकार्मुकम् ।” इत्यमरः । त्वरितेत्यादिः ० = त्वरित: ( त्वरायुक्तः ) परिजन : ( सेवक: ) तेन उपनीतं ( समीपप्रापितम् ) यत् पल्लवाऽऽसनम् ( किसलयोपवेशनाधारः), तस्मिन् समुपाविशत् = समुपविष्टः ।
अन्यतरस्त्विति । अन्यतरस्तु = अनिर्दिष्टनामा कश्चित्तु शबरयुवा = शबरतरुणः, ससम्भ्रमं == सत्वरम्, अवतीर्यं = सरस्यवतरणं कृत्वा करयुगलपरिक्षोमिताऽम्मसः = करयुगलेन ( हस्तयुग्मेन ) परिक्षोभितं (संचालितं, शैवलाद्यपनयनाऽर्थमिति भाव: ) अम्भ : ( जलम् ) यस्य, तस्मात् । सरसः=पम्पाऽभिधानात्, कासारात्, कमलिनीपत्त्रपुटेन = पद्मिनीदलपुटेन, वैदूर्यद्रवाऽनुकारि= वैदूर्यस्य ( वालवायजमणेः ) द्रवः (द्रुतिः ) तदनुकारि ( तदनुकरणशीलम् ) । विदूरात् ( वालवायपर्वतात् ) प्रभवतीति वैदूर्यम्, “विदूराञ्ञः" इति त्र्यप्रत्ययः । "वैदूर्यं वालवायजम्" इति विश्वः । प्रलयेत्यादिः ० = प्रलये ( कल्पान्तकाले ) यो दिवसकर ( सूर्यः ) तस्य किरणानाम् ( कराणाम् ) उपताप: ( सन्ताप: ), तस्मात् । विलीनम्=क्षरितम्, अम्बरैकदेशम् इव = आकाशैकमागम् इव, अत्रोत्प्रेक्षा । इन्दुमण्डलात्चन्द्रबिम्बात्, प्रस्यन्दितं = प्रक्षरितं द्रुतं = द्रवीभूतं मुक्ताफलनिकरम् इव - - मौक्तिकफलसमूहम् इव, उत्प्रेक्षा । अत्यच्छतया = अतिशयनिर्मलत्वेन, स्पर्शाऽनुमेयं = स्पर्शेन ( आमर्शनेन ) अनुमेयम् अनुमातुं योग्यं, सलिलत्वेनेति शेषः । हिमजडं = हिमम् ( तुहिनम् ) इव, जडम् ( शीतम् ) । उपमालङ्कारः । अरविन्दकोशरजः कषायम् = अरविन्दस्य ( कमलस्य यः कोश: (कणिकाssधार :) तस्य रजः ( परागः ) तेन कषायम् ( सौरभयुक्तम् ) । तादृशम् अम्भः = सलिलम्, प्रत्यग्रोद्धृताः । सद्यउत्पाटिताः, धौतपङ्कनिर्मलाः = धौतः ( क्षालितः ) पङ्कः ( कदमः ) यासां ता: अत एव निर्मला: ( स्वच्छा: ), मृणालिका: = अल्पानि मृणालानि तानि । अल्पानि मृणालानि मृणाल्यः, अवयवाऽपचयविवक्षायां "षिद्गौरादिभ्यश्चे" ति ङीष् । मृणाल्य एव मृणालिकास्ता: । "स्त्री स्यात्काचिन्मृणाल्यादिविवक्षाऽपचये यदि ।" इत्यमरः । समुपाहरत् = समानयत् ।
H
सेनापतिः =
आपीतेति । आपीतसलिलम् = आपीतं ( पानविषयीकृतम् ) सलिलं ( जलम् ) येन सः । : = शबरचमूनायकः, ताः = पूर्वोक्ताः, मृणालिकाः = अल्पानि मृणालानि, सैंहिकेयः = राहुः, फुर्तीले नौकरसे लाये गये पल्लवोंके आसनपर बैठ गया । अन्य एक युवा शबर शीघ्रतापूर्वक पम्पासरोवरमें उतरकर दोनों हाँथोंसे विलोडित जलवाले उस सरोवर से कमलके पत्तोंको दोनोंसे वैदूर्यमणिके द्रवके समान, मानों प्रलयकालके सूर्य की किरणों के सन्तापसे पिघले हुए आकाशके एक हिस्सेके समान, चन्द्रमण्डलसे चुवा हुआ, मानों पिघले हुए मोतियोंके समान, अत्यन्त निर्मल होनेसे स्पर्शसे अनुमानका विषय, बर्फ के समान ठण्डा, कमलके कोशके परागसे सुगन्धित जल और उसी समय उखाड़े गये, कीचड़ के धोनेसे निर्मल छोटे-छोटे मृणालखण्डों को ले आया । सेनापतिने इच्छा के अनुसार पानी पीकर उन मृणालिकाओं ( मृणालखण्डों ) को जैसे राहु चन्द्रकलाको खाता है उसी प्रकार क्रमसे खा लिया। थकावट जाने पर जल पीनेवाले समस्त उन शबर सैन्यसे अनुगत होकर वह अभीष्ट दिशाके भागमें चला गया ।